________________
(
श्रीप्रवचनपरीक्षा
अभिधेयप्रयोजने
इत्यर्थः,तेनैव कारणेन श्रीहीरविजयगुरुरिति नामा, हीति दुःखहेतुर्विरहिजनस्य शोककारणं इः-कामो यसात् स ही:-चंद्रो रविःसूर्यस्तयोर्जयो यस्य सः, तयोर्जेतेत्यर्थः,स चासौ गुरुश्चेति,श्रिया युक्तस्तथा श्रीहीरविजयगुरुः एवंविधं गुरुं प्रणम्य, किंलक्षणं ?प्रणयस्य भावः-उत्पत्तिर्यस्मात् स प्रणयभावो भावनिर्देशात् स्नेहहेतुत्वमापन्न-प्राप्तं, समस्तलोकवल्लभमित्यर्थः, किं कुर्वन्तं?-स्नेहलोचनाभ्यां सस्नेहनयनाभ्यां लोकान् पश्यन्तं, करुणैकरसाईलोचनावलोकनशीलमिति गाथायुग्मार्थः ॥५-६॥ अथ श्रोतजनप्रवृत्तिनिमित्तमभिधेयं प्रयोजनं च दर्शयन् गाथामाह| वीरजिणजम्मसङ्कन्तभासरासिप्पभावओ पउरा। पवयणपूआऽसहणा कुपखिआ ते म्मि दंसेमि ॥७॥ | तान् कुपाक्षिकानहं दर्शयामि-वाग्गोचरीकुर्वे इत्यन्वयः। 'अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिने ति प्राकृतसूत्रेण म्मि, | अहमित्यर्थः, यत्तदोर्नित्याभिसम्बन्धात् तान् कान् ?, ये 'कुपाक्षिकाः' पक्षः-अङ्गीकारः प्रयोजनं येषां ते पाक्षिकाः उत्सूत्रभाषणादिना कुत्सितास्तीर्थनिन्द्याः ते च ते पाक्षिकाच कुपाक्षिका इति व्युत्पत्त्या उत्सूत्रभाषिणोऽमिनिवेशमिथ्यात्विन इत्यर्थः, वर्त्तन्त इति | वार्त्तमानिका क्रिया अध्याहार्या, तेन निस्सत्ताकीभूतसंताना जमाल्यादयो न वक्ष्यन्ते, किन्तु विद्यमानसन्तानाः दिगम्बरादिपाशपर्यन्ता वक्ष्यन्त इत्यर्थः। अथोत्सूत्रभाषिणां स्वरूपभाषणाय विशेषणमाह-'पवयण'त्ति, किंलक्षणास्ते ?-'प्रवचनपूजाऽसहनाः' प्रवचनस्य पूजाया-अभ्युदयस्यासहना-द्विषः, यतः शिवभूतिचन्द्रप्रभाचार्यादयोऽनन्तानुबन्धिकषायोदयिणः प्रवचनपूजामिभूतय एव नवीनमतप्रवर्गका अभूवन् , कथमन्यथा स्वयंसिद्धं सिद्धिसौधसौख्यास्वादकल्पं तीर्थ परित्यज्य नवीनमतकल्पनाक्लेशेनात्मानं अकदर्थयिष्यन् । ते च कुपाक्षिकाः कियन्तः?-'पउर'त्ति प्रचुराः-प्रचुरसंख्याकाः,प्रचुरत्वे हेतुमाह-'वीरजिण'त्ति
MARATHIPATION
॥९॥
A