SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ।।४१५ ॥ कार्यहेतुरित्यर्थः शेषः पुनस्तिध्यादेरवयवः मञ्जरीपर्यन्त सहकारसमः फलसाधको, विवक्षित फलरूपस्याभिमततिध्यादेर्हेतुमात्र एवेत्यर्थः, समये - स्वसमये परसमये च एतावता तिथिवृद्धौ द्वितीया तिथिः मासवृद्धौ च द्वितीयो मासो विवक्षिततिध्यादेर्वृक्षकल्प| स्य फलसदृशो मनुष्यकल्पानामभिमतः शेषस्तु आस्तां विशिष्टचेतना मनुजाः, प्रशस्तवनस्पतयोऽपि सहकारादयः सूर्यसंक्रान्ति | प्रथमं मासं परित्यज्य द्वितीयमास एव पुष्पफलादिकं प्रयच्छन्ति, यदागमः - "जर फुल्ला कणिआरया चूअग अहिमासयंमि घुईमि । तुह न खमं फुल्लेडं जड़ पचंता करंति डमराई || १ || "ति श्रीआव० नि० (१२५५) यस्तु वृद्धौ प्रथमं मासं प्रमाणयति स च प्रशस्तवनस्पतिष्वपि नान्तर्भावनीयः, यतो वनस्पतिभ्य उद्वृत्यावाप्तमनुजभवो मोक्षमपि याति, अयं तु नियमादनन्तसंसार्येवेति गाथार्थः ||| २१८ || अथ लोकव्यवहारमाह जम्हा लग्भा अहिअं न देह दित्तोवि दायगो कोऽवि । तत्थवि पुराणरीई लोअववहारओ या || २१९५॥ यस्मात्कारणादीप्तोऽपि - दीप्तिमानपि दायको लभ्यादधिकं न कोऽपि ददाति, अर्थात्र दापयत्यपि कोऽपि कारणिकः, तत्रापि लोकव्यवहारतः पुराणरीतिर्ज्ञेया- पूर्वं यया रीत्या देयलभ्यादिव्यवहार आसीतयैव रीत्याऽधुनाऽपि न्यायप्राप्तौ व्यवहारो भवेत्, | नान्यथेतिगाथार्थः || २१९ || अथ तिथिविषये पूर्वरीतिमाह पुवं रबिउदयजुआ एगा घडिआवि लब्भलाहगरी । अण्णावि ताववेक्वाजुत्ता किं पिहिअ पेडाए ? || २२० ।। पूर्वम्- अनादिकालतोऽद्य यावद् रव्युदययुता एकापि घटिका लम्यलाभकारी आसीद्, ग्राह्मदायिकाऽभूदित्यर्थः, तत्रत्यं तावत्पाक्षिककृत्यं चतुर्थादि, पाक्षिकत्वेन चाभिमता चतुर्दशी, सा चैकघटिकामिताऽपि समाप्तिसूचकसूर्योदययुता पाक्षि तिथिमासविचार: ॥४१५ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy