________________
HANI
श्रीप्रव
तिथिमासविचारः
पनपरीक्षा ४विश्रामे ॥४१४॥
मूलतोऽपि गतायां आराध्यत्वेन पर्वरूपायां पूर्णिमायां चतुर्दशीकृत्यं क्रियते,अत्र च चतुर्मासकव्यतिरिक्ता पूर्णिमा अमावास्या च श्रावकाणामेव 'चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरंती'ति प्रवचनवचनात् पौषधव्रतमात्रमङ्गीकृत्याराध्यत्वेनामिमता, न पुनः क्वापि साधूनामपीयमसुकविधिनाऽऽराध्येति, तथा च पाक्षिककृत्यमधिकृत्य यथा त्रयोदशी तथा पूर्णिमाद्यपीति कथं पाक्षिककृत्योपयोगिनी, क्षीणा च चतुर्दशी त्रयोदश्यां सर्वात्मना स्थितेति त्रयोदश्यां द्वयोरपि विद्यमानत्वाच्चतुर्दशीकृत्यं त्रयोदश्यामेव युक्तमिति, अत्र च बहव्यो युक्तयः सन्ति,किंचिद्विस्तरार्थिना तुमत्कृततत्त्वतरङ्गिणीतो बोध्या इति गाथार्थ ॥२१६॥ अथ समाप्तिसूचकोदयस्य प्राधान्यसमर्थनाय दृष्टान्तमाह
आमूला महगारो मंजरिपर्जतओ महंतोऽवि । न पहाणो किंतंते फलं पहाणं मणुअजुग्गं ।।२१७।। आमूलात-मूलादारभ्य मञ्जरीपर्यन्तो महानपि सहकारो न प्रधानः, किंत्वन्ते मनुजयोग्यं फलमेवोपगम्यं,फलमेव प्रधानम् , आमूलफलपर्यन्तस्याखण्डस्य वृश्वस्य प्रधानोऽवयवः फलं तदतिरिक्तस्याप्राधान्यात् , फलार्थमेव शेषावयवेष्वपि प्रयत्नकरणाद् , अत एव फलित एव सहकारे वृत्यादिना यत्नकरणं, नान्यथा, फलोपेक्षकाणां तु वटादिवृक्षसदृश एव सहकारोऽपीति गाथार्थः ॥२१अथ दृष्टान्तदान्तिकयोजनाय गाथामाहफलसरिमो मो उदओ जम्मि ममप्पड तिही अमासो अभिजरिपजंतसमो सेसो फलसाहगोसमए ।।२१८॥
फलसदृशः स उदयः-सूर्योदयो यस्मिन्नुदये तिथिः समाप्यते-यमुदयमुपलभ्य तिथिः समाप्तिं याति, चः पुनरर्थे,मासो वाग संक्रान्ति प्राप्य मासः समाप्ति याति सेव संक्रांतिः फलसदृशी, तथाविधसूर्योदयसमन्विता तिथिर्मासो वा विवक्षितनियत
SIMILARIHMIRR MERIRMPAIMILANEITHUPARIURETHURMERIALIRAULARIAN
ORNammation
A
TALIM