________________
श्रीप्रवचनपरीक्षा
४ विश्रामे ॥४१३॥
the
चोत्यादि जिनवल्लमेन पौषधविधिप्रकरणे भणितं, किं च विधिप्रपायां चतुर्मासचतुर्दश्याः पाते पूर्णिमोक्ता, सांप्रतीनैस्तु चतुदेशीमात्रस्थाने पूर्णिमामावास्यो गृह्यन्ते इति तच्चित्रं, तस्मादुत्तरत्र दिने क्षीणतिथेः संबन्धाभावात् न तत्तिथिलभ्यं लभ्यते इतिगाथार्थः || २१३|| अथ पराशयस्य कुत्सितत्वमुद्भाव्य तिरस्करोति
वुड्ढी पुर्ण पढमा पुष्णा हाणीइ मूलओ गलिआ । इअ वयणं दुधयणं सोअवं नेव निउणेहिं ॥ २१४|| पुनः प्रथमा तिथिः पूर्णा हानौ च मूलतोऽपि गलिता इति वचनं दुर्वचनं मृषाभाषणं न निपुणैः श्रोतव्यं, किन्तु अपकर्णयितव्यमितिगाथार्थः || २१४ ॥ अथाश्रोतव्ये हेतुमाह
जम्हा तीऽवयवो पहाणुदयमजुओ अ बीअदिणे । हीणा पुण पुवदिणे पुण्णा पण्णेहिं दिट्ठति ॥ २१५ ॥ यस्मात्कारणात् 'ती 'ति तस्या एव तिथेः प्रधानोदयसंयुक्तोऽवयवो द्वितीये दिने वर्त्तते, हीना पुनः पूर्वदिने पूर्णा वर्तते, नहि हीनत्वं नाम तिथेर्नाशः, किंतु यदा घटिकाद्वयमिता त्रयोदशी चतुर्दशी च चतुष्पञ्चाशदादिघटिकामिता स्यात्तदा तस्यास्तिथेनित्वं प्रतिपद्यते, तथा पष्टिघटिकामितस्य ख्यादेवरस्य पूर्त्तरभावाद्, एवंविधा च पूर्णा प्राज्ञैः पण्डितैः ज्योतिःशास्त्रनिपुणैदृष्टेतिगाथार्थः || २१५ ।। अथ तिथेहानौ खरतरस्यार्द्धजरतीयमाह-
अट्ठमिपडणे सत्तमि चउदसिपडणे अ पुण्णिमापमुहा। इस अद्धजरइकुक्कुरि कीडड़ जिणदत्तनिलयंमि ॥ २१३६||
अष्टमीपतने सप्तमी चतुर्दशी पाते च पूर्णिमाप्रमुखाः- पूर्णिमामावास्य इति अर्द्धजरतिकुक्कुरी जिनदत्सनिलयंमि-जिनदत्तगृहे क्रीडतीति, अयं भावः- यदाऽष्टस्यादितिथिः पतति तदाऽष्टम्यादिसंबन्धि कृत्यं सप्तम्यामष्टमीतिधिया क्रियते, चतुईशीपाते चतुर्दश्यां
तिथिमासविचार:
॥४२३॥