________________
श्रीप्रवचनपरीक्षा ४विश्रामे ||४०१॥
मासकल्पाम्यवच्छेदः
धानमाषां दर्शनं, यत एवमतो मागतः स्थिता एव ता गच्छन्ति, उभयं च-कायिकीसंज्ञारूपं यतनया कुर्यात् , कापुनयतनेति चेदुच्यते,यत्रैका कायिकसंत्रां व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति,तथा स्थितांश्च तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः,ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीतिगतं गच्छम्यानयनमितिद्वारं । इतिबृहत्कल्पभाष्यवृत्तिप्रथमग्वण्डे प्रथमोद्देशकमान्ते। एवं व्यवहारवृत्तावपि बोध्या तथा-पहगमणवसहिआहारसुअणथंडिल्लविहिपरिट्टवणं। नायरहनेव जाणइ अजावट्टावणं चैव ।।१।। इति श्रीउपदेशमालायां,अत्रायिंकावर्तनं वपिनं न जानात्यनेन प्रकारेणार्यिकया प्रवचनीय, ग्रामादौ स्थितौ गमने च मम्यगाचारपरिबानशून्यः प्रवर्चमानः पार्श्वस्यो मण्यते इत्यर्थः,यस्तु जानाति स तु प्रागुक्तविधिना ग्रामादौ विहरन् साध्वीमिः सहापि |जिनाबाराधको बोध्यः। न पुनः स्वनिश्रिताः साध्व्य एकाकिन्यो भ्रमन्ति, म्वयं च तद्विरहितो प्रामादौ यात्यायाति. येत्यादि।
आगमोक्तविधिना शरीरचिन्तानिमित्तमपि बहिर्गमनं साध्वीनामनुचितं, कथं स्वेच्छया तासां ग्रामानुग्रामविहारकरणमुचितमिति मूक्ष्मधिया पर्यालोच्यं ।। नन्वेवं विहारकरणविधिरपि साध्वीनामेवागमे भणितस्तासामेवानार्यलोकेभ्यः शीलखण्डनादिभयसंभवात्, कुपाक्षिकवेषधारिणीनां तु सम्यक्त्वस्याभावेन शीलगुणलेशस्याप्यभावान तासां शीलखण्डनादिभयमिति स्वेच्छयाऽपि प्रामा ग्रामपरिभ्रमणेऽपि न कश्चिदोषः, तथा च सिद्धान्तसम्मतिप्रदर्शने किं प्रयोजनमितिचेत् , सत्यं, नहि वयं कुपाक्षिकवेषधरास्तद्वेपधारिणीभिः सह परिभ्रमन्त्वितिधिया सिद्धान्तसम्मति दर्शयामः, किंतु नदचसा मुग्धजनानां शङ्कापातकं यत्नत्पराकरणमेव प्रयोजनमिति गाथार्थः ।।९७॥ अथ पुनरपि न्यूनमुत्सूत्रमाह
अहणा मासविहारं वुच्छिन्नं भणड छिन्नसनो आ। जिणदत्तो जिणदत्तोबएसपरमत्थममुणतो ॥९॥