________________
पोषधः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७८॥
सम्मतानि, किं पौषधपडिभेदन-पौषधस्य पडिभेदः क्रियते तत्र किं कारणं', को वा पौषधस्यापराध इति गाथार्थः।। ८१॥ अश्वातिप्रसङ्गत्रानाभावमाह
न मुणइ अइप्पसंग अतिहीणं संविभागकरणंमि । नबमीपमुहतिहीसुं उवएसंतोबि निल्लज्जो ॥८३॥ नवमीप्रमुखतिथिपु-पौषधिको हि पारणके साधुभ्यो दवैव भुंक्त इत्यादिरूपेण नवम्यादिषु तिथिवर्थादतिथिसंविभागमुपदिशम्नपि निर्लजो-लजारहितोऽतिथीनां साधूनां संविभागेऽतिप्रसङ्गं न जानाति, यदि शिक्षाव्रतरूपोऽपि पौषधोऽष्टम्यादितिथिष्वेव | युक्तस्तह्यतिथिसंविभागोऽपि तथैव युक्तो भवेत् , तथा च नवम्यादिपु तत्प्रतिषेधप्रसङ्गः, न चार्थादतिथिसंविभागो नवम्यादिष्वेव |संभवतीति शङ्कनीयम् , अष्टम्यादिष्वपि जिनवल्लभेनापि भणनात् , तथाहि-"जो पुण आहारपोसही देसओ सो पुण्णे पच्चकखाणे तीरिअ खमासमणदुगेण मुहपुत्ति पडिलेहिअ खमासमणेण वंदित्ता भणइ-इच्छाकारेण संदिसह भत्तपाणं पारावेह,पोरसि पुरिमड्ड चउविहार एक्कासणं निधि आयंबिलं वा कयं, जा कावि वेला ताए पारावेमि,तओ सकत्थएण चेइए वंदिअ सज्झायं सोलस वीसं |वा सिलोगे काउं जहासंभवमतिहिसंविभाग दाउं मुहहत्थपाए पडिलेहिअ नमोकारपुवमरत्तदुट्ठो भुंजे" इत्ति पौषधविधिप्रकरणे, ननु सोऽतिथिसंविभागो द्वादशव्रतं न भण्यते, किंतु यदागमः-"साहण कप्पणिजं जं नवि दिण्णं कहंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगा तन्न भुजंति ॥१॥"त्ति श्रीउप०, इति चेच्चिरं जीव, 'तुष्यतु दुर्जन' इति न्यायाद्यथा द्वादशवतस्वरूपाभावेऽपि निर्जराहेतुत्वेन साधुदानमभ्युपगम्यते तथैकादशवतस्वरूपाभावेऽपि निर्जराहेतुत्वेन प्रतिदिनं पौषधोऽप्यभ्युपगन्तव्यो, न्यायस्य समानत्वादिति गाथार्थः ॥८३।। अथ पौषधो हि प्रतिक्रमणवनियतकालानुष्ठानं भविष्यतीतिपराशङ्कामपाकरोति
litamadhan
॥३७८