SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ अपर्वपौषधः श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७७|| स्यादि, न पुनः कापि "दिवस अहोरत्तं दुन्नि अहोरत्ते वे"त्यादिपाठः संप्रदायादागतः, न चैतत्काल्पनिक, तपार्थवृत्तिकृता तथैव प्रदर्शितत्वात् , तथाहि-यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावञ्जीवं भावनीयानि, शिक्षापदव्रतानि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि, प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्य इतिया| बत् , पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ,पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षा-अभ्यासस्तस्याः पदानि-स्थानान्यभ्यासविषयास्तान्येव व्रतानि शिक्षापदव्रतानि, गुणवतानि तु न प्रतिदिवसग्राह्याणि सद्ग्राह्याण्येव इति तत्वार्थवृत्तौ पत्र १९४ सर्वपत्र २६३, अत्रोक्तवाक्यद्वयस्यापि पुनः पुनरष्टम्यादितिथिष्वनुष्ठेयेते इति परमार्थः प्रदशिंतः, अत एव प्रथमपश्चाशकवृत्तौ श्रीअभयदेवमूरिभिः पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयावित्येकमेव वाक्यं |निगदितमिति गाथार्थः । ८०॥ अथ विरोधमाहसिक्खा पुण अब्भासो करणिजं पइदिणं खु तंपि वयं । अहमिमाइसु कज्जो नन्नासु विरुद्धवयणमिणं ॥८॥ शिक्षा पुनरभ्यासो भण्यते, तच व्रतं प्रतिदिनं-दिनं२ प्रति करणीयं-कर्त्तव्यम् , अन्यथाऽभ्यासस्यैवासंभवाद्, अभ्यासो हि प्रतिदिनं कर्तव्याहः, यदुक्तं-"अञ्जनस्य क्षयं दृष्ट्वा. वल्मीकस्य च वर्द्धनम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥१॥" इत्येवं सत्यप्यष्टम्यादिष्वेव पौषधो विधेयो नान्यास्विति विरुद्धवचनमिदमिति गाथार्थः ।।८।। अथ प्रतिबन्दीमाहसिवावएसु चउसुवि तिविण वयाइं तु सम्मयाई तुहं । पइदिणकरणिज्जाइं किं पोसहपंतभेएण? ॥८॥ शिक्षाव्रतेषु चतुर्ष त्रीणि व्रतानि सामायिकदेशावकाशिकातिथिसंविभागनामानि तु तवापि-खरतरस्यापि प्रतिदिनं करणीयानि ELI R ॥३७७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy