________________
चतुर्थीपर्यु
श्रीप्रबचनपरीक्षा
षणा तीर्थ
allmmaNabaliNNISMISH JINNIMALINIMIMIUMIDHARMAPANI RIDPURNIMALPARAMI
किं कर्त्तव्यमितिचेद् उच्यते,न हि आगमासंगतमभ्युपगच्छत् तीर्थ स्यात् ,न वा तीर्थमागमासंगतमभ्युपगच्छेत् ,शीतोष्णस्पर्शयोरिवागमासंगततीर्थाभ्युपगमयोरन्योऽन्यं विरोधस्यानादिसिद्धत्वात् , तस्मात् सदोषदृशामेव मरुमरीचिकाजलज्ञानदृष्टान्तेन तीर्थाभ्युपगतमागमासंगतमिवाभाति, न पुनर्निर्दोषदृशामपि, अत एव तीर्थाभ्युपगतां पर्युषणाचतुर्थी परित्यज्य पञ्चमी स्वीकुर्वाणस्तीर्थबाह्य इत्यश्चलमतनिराकरणविश्रामे वक्ष्यामः॥ ननु कालकसूरेः पूर्व तीर्थकृद्गणधरादिमहापुरुषैः पञ्चम्यामेव पर्युषणा कृतेति बुद्धिमवलव्य तथा कुर्वतामस्माकं कथं तीर्थवाह्यतेति चेद ,उच्यते-चतुर्थीप्रवर्तककालकसूरेरारम्याद्य यावत् चतुर्थ्याश्रितं तीर्थमच्छिन्नमिति तवापि प्रतीतम् , एवं विधे तीर्थे विद्यमाने तत्प्रतिकूलचारी पञ्चम्याश्रितस्त्वं स्वत एव तीर्थवाह्यः संपन्नो, यो यतःप्रतिकूलाचारवर्ती स ततो बाह्य इति तु गोपालस्यापि प्रतीतम् ।। किंच-श्रीऋषभजिनपरिणयनकालात् पूर्वभाविनां यौगलिकमनुष्याणामपरिणीतभ्रातृभगिनीसंबंधोऽपि दम्पतिभावाश्रितो यथा निर्दोषतया व्यवहियमाणोऽनिन्द्यो भवन्नपीदानीन्तनमनुष्याणां सदोषो यावदपालेयहेतुश्च स्यात् तथाऽत्रापि बोध्यं, तेन सार्वजनीनप्रवृत्तौ सत्यां तद्विपरीतप्राचीनप्रवृत्तेः सत्पुरुषाचरिताया अपीदानीमनादरणीयत्वमेवेति बोध्यम् , चतुर्थीपर्युषणायाश्च सार्वजनीनत्वं प्रवचने प्रतीतमेव, नहि तदानीं पञ्चमीपर्युषणामाश्रितः कोऽपि पक्ष आसीद्,
अत एव चतुर्थीपर्युषणाश्रितस्य यतो बाह्यत्वं भण्यते तत्पक्षस्यैवाभावादनन्यगत्याऽपि चतुर्थीश्रितमेव तीर्थ, ततो बाह्यत्वं च | पञ्चमीपर्युषणाश्रितस्य समुदायस्य स्फुटमेव, तस्य बाह्यत्वव्यपदेशहेतोश्चतुर्थीतीर्थस्य विद्यमानत्वादिति सिद्धम्-'अच्छिन्नपि अ तित्थं पभावि पुण्णचरिआए'त्ति ॥ तथा 'चंदुत्व'त्ति स श्रीआणंदविमलसूरियुगप्रवरो-युगप्रधान:: संविग्नः संविनत्वादिगुणैरद्वितीयोऽत एव सर्वविख्यातः-सर्वत्र ख्यातिभाक्, किंलक्षणः',चन्द्रवत् सोमलेश्यः,सकलविहारेण लोचनानन्दः, सकले
॥
७
॥