________________
श्रीप्रव
चनपरीक्षा
HUIPRITHILIMANIPATI
तपागच्छस्य तीर्थता नागममूलताच
DHit
बताऽभ्युपगन्तव्या, लोकेऽपि साधुश्रेष्ठिमन्त्रिसङ्घपत्यादिनामान्तरसंभवेऽपि न कुलाचारादेः किंचिद् बाधकं, प्ररूपणाचारयोथाच्छिन्नता नात्र गणे केनापि पराकतुं शक्या, अतस्तपागणसंबंध्येव साध्वादिसमुदायस्तीर्थ संप्रति भरतक्षेत्रे,नान्य इति बोध्यम् ॥ एतेन वयमागममनुसृत्य प्रवमिहे, किमस्माकं परम्परया प्रयोजनमित्यादिकाचपिच्यकदाशापि परास्ता, परम्परानङ्गीकारात्, परम्परामूलकत्वादागमस्य, यदागमः-"तिविहे आगमे पं०, तं०-अत्तागमे अणंतरागमे परंपरागमे"त्ति श्रीअनुयोग०, तत्रात्मागमानन्तरागमौ गणधरशिष्यान्तावतो व्युच्छिन्नौ, तृतीयस्तु परम्परागमः, स च परम्परामन्तरेणासंभवीति कथं परम्परानङ्गीकारे आगमानुसारेण प्रवृत्तिगंधोऽपि?, न हि घटानङ्गीकारे तद्गतरूपादीनामपि स्वीकारः सम्यक् स्यात् , किंच-स्वमति विकल्पनयाऽप्यागमानुसारेण प्रवर्त्तने तीर्थबाह्यता त्वनिवार्यैव, नन्वागमानुसारेण प्रवर्तितस्य स्वसमुदायस्यैव तीर्थत्वाभ्युपगमात् कुतस्तीर्थबाह्यतेति चेत् मैवं,आगममूलकमपि तीर्थ स्यादित्येवं क्वाप्यागमेऽनुपलम्भात् महामृषाभाषित्वाद् , अयं भावः-"तित्थं चाउचण्णो, संघो सो पढमए समोसरणे। उप्पनो अजिणाणं वीरजिणिंदस्स बीअंमि॥१॥"त्ति प्रवचनवचनप्रामाण्यात् , तीर्थ हि समुत्पत्रकेवलज्ञानात् | तीर्थकरादेव स्यात् , न पुनः कुतश्चिदप्यपरस्माद्धेतोः, तेन वयमागमानुसारेण प्रवर्तामहे इति वचनं पिता मे कुमारब्रह्मचारीति वचनवदवगन्तव्यम् , आगमविरुद्धप्रवृत्तिमतोऽप्यात्मन आगमानुसारेण प्रवृत्तेर्भणनात् , न हिक्काप्यागमे श्रुतव्यवहारिणा व्यवस्थापितोऽपि साध्वादिसमुदायस्तीर्थ स्यादित्यादि दृष्टं श्रुतं वा, तेन तीर्थ तीर्थकरमूलकमेव, न पुनरागममूलकमितरपुरुषमूलकं वा स्यादित्यत्र बहु वक्तव्यं, किंचिच्चेहैव तित्थं चाउवण्णो इत्यादिदशमगाथात् आरभ्य तीर्थस्वरूपनिरूपणावसरे किंचित्केवलपुस्तकमूलकलंपाकमतप्ररूपणावसरे च वक्ष्यते इति बोध्यम् ।। ननु सुहद्भावेन पृच्छामः-तीर्थाभ्युपगतमपि किश्चिदागमासंगतं दृश्यते तत्र
ARRIERPRISTIBITIHANIBHIRA