________________
श्रीप्रवनपरीक्षा ॥ ५॥
युक्तिः प्राग्वदवगन्तव्या, ये त्वाञ्चलिकसार्द्धपौर्णिमीयकागमिकनामानः कुपाक्षिकास्ते पौर्णमीयकमूलका एवेति निजनिजनाम्ना विश्रामे वक्ष्यामः, तेन पौर्णिमीयके तीर्थबाह्ये सिद्धे ते तु सुतरां तीर्थबाह्या एवेति 'षट् कुपाक्षिका जीर्णा' इति जनप्रसिद्धिः ६ ॥ अथाधुनिकानां चतुर्णां मध्ये लुम्पाकमतं वि० १५०८ वर्षे लुम्पकलेखकात् प्ररूपणामधिकृत्य प्रवृत्तं, तत्प्ररूपणा च जिनप्रतिमानिषेधमूलिका, तन्मते वेषधराः पुनः वि० सं० १५३३ वर्षे सीरोही प्रत्यासन्नारघदृकवास्तव्यप्राग्वाटज्ञातीयभाणा| ख्यादेव प्रवृत्ताः, एतदुत्पत्तिर्विस्तरतस्तु एतन्नाम्नाऽष्टमविश्रामे वक्ष्यते, अयं च प्रवचनबाह्यतयाऽऽबालगोपालाङ्गनानामपि प्रतीतः ७॥ | एवं कडकबीजापाशचन्द्राः खखनाम्ना मताकर्षका अपि बोध्याः, उपलक्षणादन्येऽप्युपधानाद्यपलापिनस्तथाभूता एवावगन्तव्याः १० ॥ एते दशाप्यतीर्थकरमूलकाः न तीर्थं, किंतु मरुमरीचिकायां जलाभास इव तीर्थाभासास्तीर्थबाह्या इति ।।
ननु तपागणोऽपि वि० १२८५ वर्षे श्रीजगन्चन्द्रसूरितो जातः, सोप्युक्तयुक्त्या कथं तीर्थमिति चेद् उच्यते-न हि श्रीजगन्ञ्चन्द्रसू| रिर्वटगच्छात् कुतश्चिनिमित्ताद् विपरीतप्ररूपणया चन्द्रप्रभाचार्यादिवत् पृथग्भूतः, किन्तु प्रमादवशेन क्रियाशिथिलं साधुसमुदायं | परित्यज्य निजगुर्वाज्ञया श्री आणन्दविमलसूरिवत् श्रीसुधर्मस्वामिनोऽच्छिन्नपरिपाट्या समागतां दशविधचक्रवालसामाचारीक्रि|यां कुर्वाणं यावज्जीवमाचामाम्लतपोऽभिग्रहेण कृशाङ्गीभूतं श्रीजगञ्चन्द्रसूरिं दृष्ट्वा राज्ञा तपा इत्याख्या वक्तव्येत्युक्तं, ततःप्रभृति | वटगणस्यैव तपा इत्याख्या प्रससार, न ह्येतावता प्रागुक्तयुक्तिरत्रावतरति, अन्यथा श्रीसुस्थितसुप्रतिबुद्धाभ्यामेव कौटिकनाम्ना गणः, ततोऽपि श्रीचन्द्रसूरेश्चन्द्रगच्छसंज्ञा, ततोऽपि चन्द्रगच्छीयेन श्रीउद्योतनसूरिणा श्रीसर्वदेवसरेर्वटे सूरिपदकरणात् श्रीस|र्वदेवसूरितो वटगच्छ इतिरूढिरित्येवं कौटिकाद्गिणा अप्यच्छिन्नं तीर्थं न स्युः, तस्मान्नामान्तरप्रादुर्भावेऽप्याचारप्ररूपणयोरच्छि
दशानां बाह्यत्वं
॥ ५ ॥