________________
श्रीप्रव
तीर्थाव्युच्छिन्नता
I
चनपरीक्षा ॥ ४ ॥
ndianimmmmmmmmmittILLAINIKumar
| तर्हि व्युच्छिन्नं तीर्थ शिवभूतिना प्रादुष्कृतमिति श्रोतुमप्यकल्प्यं, न हि व्युच्छिन्नं तीर्थ तीर्थकरमन्तरेण केनापि प्रादुष्कर्तु शक्यते, तीर्थकराधिक्यप्रसङ्गादित्युभयथाऽपि दिगम्बरस्तीर्थबाह्यः संपन्नः, यत्तु दिगम्बरात् श्वेताम्बरोत्तिरिति त्वदीयं वचः, तच 'मुक्कंबरा य समणा निरंबरा मज्ज्ञ धाउरत्ताई। होंतु अ मे वत्थाई अरिहो मि कसायकलुसमई ॥१॥" इत्यादिश्रीभद्रबाहुस्वामिप्रभृतिप्रणीतनियुक्त्यागमबाधितत्वेन देवानांप्रिय ! प्रलापकल्पमेवेति दिगम्बरसमुदायो नाच्छिन्नं तीर्थमिति बोध्यम् १॥ एवं पौर्णिमीयकोऽपि श्रीवीरात् १६२९ वर्षे विक्रमात् ११५९ वर्षे श्रीमुनिचन्द्रमुरिगुरुभ्रातृमात्सर्याच्चतुर्दशीयपक्षनिर्गतात् चन्द्रप्रभाचार्यात् प्रवृत्तो न तीर्थ, युक्तिस्तु प्रागुक्तैवात्राप्यवतारणीया, चतुर्दशीयपक्षानिर्गतत्वं च तदीयैरप्युक्तं, यदुक्तम्दुर्वादिद्विरदानुशः समयविच्छेणीशिरोमण्डनं, श्रीचन्द्रप्रभसूरिराट् स भगवान् प्राचीकशत् पूर्णिमाम् । तस्माज्जैनवचोऽमृतंभृशमधुः |श्रीधर्मघोषादयः, श्रीभद्रेश्वरसूरितस्त्वचकलत् शाखा द्वितीया प्रथाम् ॥१॥" इति पौर्णिमीयककृतसंस्कृतक्षेत्रसमासवृत्तिप्रशस्तौ। | तथा श्रीअममतीर्थकृच्चरित्रप्रशस्तावपि तदीयैरेव चन्द्रप्रभाचार्यादेव पूर्णिमाप्रकटनं भणितमिति, तथा-'वडगच्छाओ पुण्णिम पुण्णिमओ सड्ढपुण्णिमंचलया । दोहिवि आगमनामा कुच्चयरा खरयरो जाओ ॥१॥' तथा सङ्घन निवार्यमाणोऽपि चन्द्रप्रभाचार्यः पूर्णिमापाक्षिकं प्रकाशितवानित्यस्मद्वृद्धवयः । किंच-यथा गुरुभ्रातृश्रीमुनिचन्द्रसूरिमात्सर्यात् ११५८ वर्षे चतुर्दशीयकाचन्द्रप्रभाचार्यात् पूर्णिमापक्षः समुत्पन्न इति प्रसिद्धिान तथा अमुकहेतुनाऽमुकाचार्यतोऽमुकसंवत्सरे पूर्णिमापक्षाच्चतुर्दशीपक्ष इति प्रसिद्धिः कर्णकोटरपथमवतीर्णा, अत एवाच्छिन्ने तीर्थे विद्यमाने तन्निर्गतः पूर्णिमापक्षस्तीर्थवाह्य एव २॥ तथा खरतरोत्पत्तिरपि विक्रमसंवत् १२०४ वर्षे श्री(स्त्री)जिनपूजोत्थापकजिनदत्ताचार्यादेव जाता,तत्रापि स एव तावदित्थं प्रष्टव्यः-भोःखरतरेत्यादिप्रश्नोत्तरवचोगी|
॥४
॥