SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीप्रबचनपरीक्षा ॥ ३ ॥ | इति मूलातिशयचतुष्टय विशिष्टो भगवान् भवत्येव विघ्नोपघातक इति भावमङ्गलभूतं भगवन्तं श्रीवीरजिनं नमस्कृत्येति गाथार्थः ॥ १ ॥ अथ गाथाषट्केन ग्रन्थकर्तुरुपकर्तृन् भावमंगलभूतान् त्रीन् सूरीन् नमस्कर्तुमाद्यसूरिस्तुतये गाथायुग्ममाह जेणं दूसमसमए कुपक्खबहुले अ भारहे वासे । अच्छिन्नपि अ तित्थं पभाविअं पुण्णचरिआए ||२|| चंदु सोमलेसो सयलविहारेण लोअणाणंदो || आणंदविमलसूरी संविग्गो सङ्घविक्खाओ ||३|| येन भगवता भारते वर्षे अस्मिन् भरतक्षेत्रे 'कुपक्षबहुले' वक्ष्यमाणलक्षणैर्दिगम्बरादिपाशपर्यन्तैः कुमतैर्व्याप्ते 'दुष्पमासमये' | पञ्चमारक लक्षणे 'अच्छिन्नमपि' सततप्रवृत्तिमदपि तीर्थं 'चाउवण्णो संघो तित्थ' मिति वचनात् श्रमणादिसमुदायलक्षणं 'पुण्णचर्यया' पवित्रक्रियया 'प्रभावितं ' प्रौढिमानं प्रापितम् अयं भावः - यावज्जीवं षष्ठाष्टमतपोविधानेन तीर्थकृदाज्ञाप्रवर्त्तनपुरस्सरं सदुपदेश| दानेनानेकेभ्यपुत्रशतप्रव्राजनेन च 'अहो एते जैन प्रवचने महानुभावाः विद्यमानामपि धनादिसम्पदं परित्यज्य दुष्करक्रियाकारिण' | इत्यादिरूपेण सकलजनप्रशंसां प्रापितमिति । अत्राच्छिन्नमिति तीर्थविशेषणेन वक्ष्यमाणानां दिगम्बरादिपाशपर्यन्तानां स्वमतिविकल्पितोपदेशेनात्मसात्कृतस्य श्रमणाभासादिसमुदायस्य तीर्थत्वं निराकृतं नहि कुपाक्षिकसमुदायस्तीर्थं भवितुमर्हति, तस्य | स्वस्वमताकर्षक शिवभूत्यादिमूलकत्वेन तीर्थकरादेव सततप्रवृत्तिमच्चाभावात्, तच्चैवं - दिगम्बरस्तावत् श्रीवीरनिर्वाणात् नवोचरपदात (६०९) वर्षातिक्रमे शिवभूत्यपरनाम्नः सहस्रमल्लतः संजातः, यदागमः- “ छब्बाससयाई नवुत्तराई तइआ सिद्धिं गयस्स वीरस्स। तो बोडिआण दिट्ठी रहवीरपुरे समुप्पन्ना " १॥ इति, अत्र दिगम्बरस्तावदित्थं प्रष्टव्यः - भो दिगंबर ! त्वदुत्पत्तेः पूर्वं श्रीवीरजिनप्रवर्तितं तीर्थमासीन्न वा ?, आसीचेत् तर्हि बोटिकानुत्पत्तावनन्यगत्या श्वेताम्बर एव तीर्थं सम्पन्नम्, अथ नासीत् श्रीआनन्दविमल स्तुतिः ॥ ३ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy