SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥ २ ॥ ILL | वर्त्तमानतीर्थाधिपतिः सान्वर्थनामा श्री महावीरोऽपश्चिमो जिनेन्द्रस्तमित्यर्थः, किं कृत्वा - ' प्रणम्य' मनोवाक्कायग्रही मावेन त्रिधा नमस्कृत्येत्यर्थः, किंलक्षणं वीरजिनं १ - 'ज्ञाननिधानं ' ज्ञानं समस्तवस्तुविषयकसाक्षाद्यथार्थावभासरूपं तस्य निधानमिव यः, | यथा रत्नानां निधानमाश्रयस्तथा भगवानपि केवलज्ञानात्मकत्वेनातीतानागतवर्त्तमानकालवर्त्तिसमस्तवस्तुप्रकाशरूपस्याश्रय इति ज्ञानातिशय: १, पुनः किंभूतं ? - 'असुरराजकृतशरणं' असुरराजः चमरेन्द्रस्तेन कृतं शरणं यस्य स तथा तम् । शरणकरणं त्वेवम् | - एकदा सद्यस्कोत्पन्नञ्चमरेन्द्रः स्वशीर्षोपरिसिंहासनस्थं शक्रं निरीक्ष्योत्पन्नेर्ण्यः शक्राशातनधिया कदाचित् शक्रपराजितः श्रीवीरजिनशरणात् मे मोक्षो भवत्विति श्रीवीरजिनं शरणीकृत्य सौधर्मं गतः शक्रपराजितो मीतः सन् रक्ष रक्ष वीरेंति ससंभ्रमशब्दाकुलः श्रीवीरचरणयोरन्तराल एव प्रविष्टः, दत्तोपयोगेन शक्रेण श्रीवीरशरणाद् विमुक्त इत्यपायापगमायिशयः २, | पुनरपि कीदृशं वीरं ? - 'सुरवरशीर्षविभूषणचरणरजसं' सुरवराणां शक्रेशानादीनामिन्द्राणां शीर्षाणि - मस्तकानि तेषां विभूषणम्अलंकरणशीलं चरणयोः - पादयोः रजो- रेणुर्यस्य स तथा तम्, प्रायो मर्त्यानाममर्त्याः पूज्याः तेषामपि शक्रेशानादयो देवेन्द्राः, तेषामपि भगवान् पूज्य इति पूज्यपूज्यपूज्यत्वात् पूजातिशय: ३, पुनरपि कीदृशं - 'चारुवयणवयं' ति चारुवचनवजं, चारु:प्रधानः स्यात्पदलाञ्छितत्वेनान्यतीर्थिकैरबाध्यो वचनानां घटपटस्तम्भकुम्भाम्भोरुहादिपदार्थाभिधायकवाक्यादीनां व्रजः - समूहो यस्य स तथा तम्, यद्वा चातुर्गतिकानामपि प्राणिनां दुःखोपनिपातोपतप्तानां शरणभूतत्वेन चारु- प्रधानं वदने - मुखे वचो - वचनं यस्य स तथा तम्, दुःखापगमहेतुत्वेन जिनवरवचनादन्यत् किमषि शरणं नास्ति, यदुक्तं वाचकमुख्यश्रीउमास्वातिवाचकैः"जन्मजरामरणभयैरुपद्रुते व्याधिपीडिते लोके । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ १ ॥” इति वचनातिशयः ४ । मंगलादि ॥ २ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy