________________
नमः श्रीवीतरागाय
श्रीप्रवचनपरीक्षा
Hocescarcanesensencremennercascamerpersonnerscmmersememcneral
Imama
Flocmaneneracticroersud
महोपाध्यायश्रीमद्धर्मसागरगणिकृता स्वोपज्ञा
श्रीप्रवचनपरीक्षा।
ARAMISHRAINED
(कुपक्षकौशिकसहस्रकिरणः) प्रणम्य श्रीमहावीरं, विश्वविश्वार्थदीपकम् । कुपक्षकौशिकादित्य, खोपनं विवृणोम्यहम् ॥१॥
इह हि तावत् प्रारिप्सितप्रकरणस्य निर्विघ्नपरिसमाप्त्यर्थमादौ मङ्गलं वक्तव्यं, तेन देवत्वेन सम्प्रतितीर्थसाधिपति श्रीमहावीरं नमस्कतु गाथामाह
पणमिअ णाणनिहाणं वीरजिणं असुररायकयसरणं । सुरवरसीसविभूसणचरणरयं चारुवयणवयं ॥१॥ | 'वीरजिणं'ति विशेषेण ईरयति-प्रेरयति कर्मशत्रूनिति वीरस रागादिजेतृत्वाजिनः वीरश्चासौ जिनश्चेति (वीरजिनः) कर्मधारयः,