________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ३७३ ॥
| जिनेन्द्रविषयक परम भक्तयुल्लसितेत्यादि तत्तु देवायत्त पुरुषवाक्यवदेवावमन्तव्यं सिद्धसेनोऽपि किमिन्द्रियपोपनिमित्तं तथा वचनवानासीदिति स्वयमेवालोच्यं, किंच - श्रीसिद्धसेनस्य गुर्वाज्ञामार्गणनिमित्तं तथावचनमभूत्, जिनदत्तस्य गुरोरभावात्स्वयमेव विक| ल्प्य तदुचितोपदेशद्वारा प्रवर्त्तितमपि अस्य च प्रायश्चित्तं तीर्थव्यतिरिक्तः को ददातीति वक्तव्यमिति गाथार्थः ।। १७५ ।। अथ तीर्थासम्मतस्य स्त्रीजनपूजानिषेवस्य भाषणे फलमाह -
तित्थासम्मय भासणार सिओ तित्थस्स होइ आसाई । सो आसायणबहुलो निअमेण अनंतसंसारी || १७६ ।।
तीर्थासम्म भाषण रसिको जिनदत्तादिसदृशः तीर्थस्य - साध्वादिचतुर्वर्णात्मकस्याशातको ह्याशातनाबहुलो नियमेन - निश्चयेनानन्तसंसारी, यदागमः - "आमायणबहुलाणं उक्कोसं अंतरं हो" त्ति श्री आव० नि० इति गाथार्थः ॥ १७६ ॥ अथोक्तयुक्त्या मूढशकापि निरस्तेति दर्शयति-
एएणं खलु मगंतरेहमिचाइमागमं वयणं । देतो दृरिकओ पवयणपरमत्थममुतो ॥ १७७॥ एतेन - प्रागुक्तप्रकारेण स्वलुरवधारणे 'मग्गंत रेहि' न्ति आगमवचनं मकारोऽलाक्षणिको देशयन् प्रवचनपरमार्थमजानन् दूरीकृत इत्यक्षरार्थः, भावार्थस्त्वयं- कश्चित्प्राग्जन्मोपार्जिततथाविधसम्मोहकमोदयात् सम्यग्जिनवचनपरिज्ञानशून्यो मार्गामार्गविवे| ककरणाशक्तः पृत्कुरुते - ननु भोः ! पुरुषक्रमायातमामाचारी मार्गो मन्यते स च प्रवचने प्रमाणमेव, यदागमः - " कहणं भंते! समणा निग्गंधा कंखामोहणिजं कम्मंते वेदेति १, गो० ! तेहि तेहिं णाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं | पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं इत्यादि यावत् कखामोहणिजे कम्मं वेदेति "त्ति श्रीभगः शत० १ ३०३ (२९) एतद्वृच्येक
न्यूनोत्सूत्रे अपर्वपौष
धनिषेधः
॥ ३७३ ॥