SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥ ३६६॥ जिणदत्तो जिणपूजा रहिआ रमणीउ जंति निवाणं । सिद्धऽणरिहाबि रमणी पूएउ जिणं भणइ खमणो ॥ १६४॥ जिनदत्तः खरतरमताकर्षकः जिनपूजारहिताः स्त्रियो निर्वाणं यान्तीति भणति, क्षपणकस्तु सिद्धयनह: - मुक्तेरयोग्या अपि स्त्रियो जिनपूजां कुर्वन्त्विति भणतीतिगाथार्थः ॥ १६४॥ अथानयोः को दक्ष इत्याह दुवि दक्खी स्वमणो निअमेण जेण जिणपूआ । मुक्तिउवाओ भणिओ कर्ज पुण कारणायतं ।। १६५ ।। एवम् अमुना प्रकारेणोपदेशप्रवृत्तयोः जिनदत्तक्षपणयोः क्षपणको दक्षो निपुणो, येन कारणेन जिनपूजा तावन्मुक्त्युपायःमोक्षहेतुः, स च भणितः - प्रकाशितः, कार्य पुनः कारणायत्तमिति कारणे सिद्धे कार्यमनिच्छाविषयोऽपि सिद्ध्यति, यथा तीर्थकृतां सिद्धिमनिच्छतामपि तदनुकूलानुष्ठान विधादित्वात् स्वत एव सिद्धिसिद्धिः, 'सामग्री हि कार्यमवश्यं जनयती'ति न्यायात्, क्षपणको जिनदत्तापेक्षया दक्षो, न पुनर्धर्मिणां प्रशंसनाह इतिगाथार्थः॥ १६५ ॥ अथ जिनदत्तस्य क्षपणकापेक्षया निकृष्टत्वे हेतुमाह कारणनिसेहणेणं कपि निसेहिअं हवइ नियमा । तेणं स्वमणा दुगुणं पावं जिणदत्तवयणेणं ॥ १६६३।। कारणनिषेधनेन - मुक्तिकारण जिन पूजाप्रतिषेधेन कार्यमपि - जिनपूजाजन्यमुक्तिलक्षणं फलमपि नियमान्निषिद्धं भवति तेन कार| न क्षपणकाञ्जिनदत्तवचनाङ्गीकारेण द्विगुणं स्त्रीणां कार्यकारणरूपोभयपदार्थनिषेधनेन पापं विज्ञेयमिति सिद्धं क्षपणकात् खरतरो निकृष्ट इति गाथार्थ: ।। १६६ ।। अथौदारिकशरीरत्वेनापावित्र्य साम्येऽपि स्त्रीणां जिनपूजा निषिद्धा, न पुनः पुरुषाणामित्यत्र हेतुमाहपुषं विराहिओ सोऽणतोदिअपावरासिनारीहिं । पावावणयणकाले गलग्गहो जेण निम्मविओ || १६७|| पूर्व - पूर्वजन्मन्यनन्तोदितपापराशिभिः जिनदत्तोपात्ताभिर्जिनदत्तो विराधितः कचिन्महत्यामापदि पातितोऽभूत् तेन कारणेन ऊनसूत्रे स्वीजिनपूजानिषेधः ॥३६६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy