________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥ ३६५॥
प्राज्ञः - तीर्थकर । दिभिस्तदर्शनमपि उत्सूत्र भाषिणां चक्षुषा निरीक्षणमपि पापं पापहेतुत्वात्प्ररूपितं - भाषितं यदागमः- “जे जिणवय-. मुत्तिष्णं वयणं भासंति जे उ मण्णन्ति। महिट्टीणं नमपि संसारवृद्धिकरं । १||" इति भाष्यकारवच इति गाथार्थः ॥ १६२ ॥ अथ लोकव्यवहारमाह
परमण्णं भुंजतो कम्मवसा कोऽवि अण्णहाभूओ । नण्णेसिं परमण्णं जुर्त्तति न लोअबबहारो ।। १६२ ।।
परमानं - पायसं भुञ्जानः कर्मवशात्-तथाविधवेदनीयोदयादन्यथाभूतो- विशुचिकावान्त्यादिभाग् भूतः यावदायुः पर्यवसानादीर्घनिद्रामापन्नः, एवंविधं परमान्नमतः परमपरेषां मृतातिरिक्तानां न युक्तं भोक्तुमिति न लोकव्यवहारः, किन्त्वास्तामन्ये, तस्यापि | ताडगवस्थां विहाय शेषकालं तत्परमान्न योग्यमेवेति लोकव्यवहार इति गाथार्थः || १६२ || अथ लोकव्यवहारेऽतिप्रसङ्गमाह - saraणमाई भेए भिण्णा उ माणवाणेगे । ता तुहुवएसरत्ता मुंजंति कहगु कराई ।। १६३ ।।
एकैकाशनादिभेदे - यावन्तोऽशनपानखादिमम्बादिमानां क्रूरादिभेदास्तेषु विवक्षितेकैकस्मिन्नपि भेदेऽनेके बहवो मानवा-म | नुष्याः भिन्नाः- पूर्वस्वभावात्स्वभावान्तरमापन्नाः, कालावस्थाविशेषे शोभनपूर्वावस्थातः अशुभामशनादिहेतुकां रोगादिग्रस्तावस्थामापन्ना इत्यर्थः एवं सति है जिनदत्त ! त्वदुपदेशरक्ता - एकापराधेऽपि तञ्जातिदण्डो युक्त इति त्वद्वचनरचनरञ्जिताः नु इति वितर्के कथं क्रूरादिकं भुञ्जते ?, किंत्वावयोरभिमता बुभुक्षैव श्रेयस्करी त्वद्भक्तानां सा च त्वदीयैरपि नाहता, कथं तर्हि स्त्रीजनमात्रेण पूजानिषेधोऽङ्गीकृत इति नेत्रे निमील्य विचार्य लोकव्यवहारवाद्येन न भवितव्यमिति गाथार्थः ॥ १६३ ॥ अथ जिनदत्तेन स्त्रीणां जिनपूजा निषिद्धा; दिगम्बरेण च स्त्रीणां मुक्तिवेत्यनयोर्मध्ये को दक्ष इति दिशिपया प्रथमं द्वयोरुपदेशमाह
ऊनसूत्रे
स्त्रीजिनपूजानिषेधः
॥ ३६५॥