SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ wondam ऊनसूत्रे स्त्रीजिन श्रीप्रवचनपरीक्षा विश्रामे ॥३३॥ पूजानिषेधः nama A THIPATHIMIR . केनापि-पुंस्त्रीनपुंसकानामन्यतरेणापि क्वचिद्-अवसरविशेष प्रमादाद्-अनाभोगाशक्यपरिहारादिलक्षणात् किंचिद्धार्मिक स्थानं -जिनप्रतिमादि चारित्रपर्यन्तं विराधितम्-आशातनादिना सातिचारंकृतं खण्डितं वा भवेत् तस्मिन् यद्विराधितं तस्मिन्नेव पुनरप्रमादाप्रवृत्तिः 'से' तस्य स्वतो गुदिनोदनाद्वेति जिनशासनमर्यादा, अयं भावः-केनचित्कथंचित्किंचित्प्रमादादशक्यपरित्यागाद्वा धर्मस्थानं विराधितं स्यात् ,तस्य तस्मिन्नेवाप्रमादात्पुनः प्रवर्तने तत्प्रत्ययमशुभकर्म विशीर्येत,अत एवास्तामन्यत् ,खण्डितचारित्रा | अप्याकुमारादयः पुनश्चारित्रप्रतिपल्या स्वर्गापवर्गभागिनोऽनेके प्रवचने प्रतीताः, तथा प्रायश्चित्तविधावपि प्रमादात्प्रतिमापुस्तकादिविनाशे नवीनकारापणादिना शुद्धिरित्यपि प्रतीतमेव, न पुनः सर्वथा तजातेरपि ततः पृथकरणमिति गाथार्थः। ।। १५७ ।। अथानिप्रसङ्गमाह अण्णह अइप्पसंगो पुरिसेवि विराहणाइ पञ्चकन्छ । तस्म व तत्वग्गस्स य चाण चाओ अ तित्यस्म ॥ १५८ ।। | ___ यदि प्रागुक्तं नाभ्युपगम्यते तर्हि पुरुषेऽप्यतिप्रसङ्गः, पुरुषेऽपि विराधनादिकमनेकधा प्रत्यक्षं दृश्यते, तद् विराधनादिकं दृष्ट्या | तस्य विराधकस्य वा-अथवा तद्वर्गस्य-पुरुषमात्रस्य त्यागे-विराधितधर्मस्थानपरिहारे तीर्थस्य-चोऽप्यर्थे तीर्थस्यापि त्यागो भ वति, अयं भावः-स्त्रीणामपावित्र्यं सार्वदिकं तु न संभवति, सर्वजनप्रतीतिबाधात् , नमस्कारादिपाठगणनाया अप्यकल्प्यत्वा| पत्तेश्च, किंतु कादाचित्कं, तत् पुरुषेऽपि समानं, कादाचित्कवणवतः पुरुषादपि कदाचित्तथाविधत्रणायुद्भवरुधिरपातस्य संभवात् | जिनभवने, ननु व्रणवतस्तत्र प्रवेशो न युक्त इति चेत्सत्यं, यद्येवं तहिं तत्र गतस्यापि पुरुषस्य कदाचित्पादादिस्खलनादिसंभवेन | तत्प्रभवरुधिरपातोऽनिवार्य एव, एवं विशुचिकावात्यादिप्रभवमप्यपावित्र्यमौदारिकशरीरसाधारणं कदाचितं तदा स्त्रीपुरुषमात्र NIBARAHILArchiRAHA R IHITS TNBIMITENA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy