________________
श्रीप्रव चनपरीक्षा ४ विश्रामे
।।३५८।।
| दृष्टान्तमाह- किंवत् ? - तरुणवत्, पदैकदेशे पदसमुदायोपचारात्तरुणप्रभाचार्यः खरतराणां प्रसिद्धः तद्वत् स च षडावश्यकबालाव| बोधे पर्युपणादिने पौषथव्यवस्थापनाय 'पूर्णिमासु च तिसृष्वपि चतुर्मासकतिथिष्वित्यत्र 'पूर्णिमासु चतसृष्वपि चतुर्मासकपर्युपणातिथिषु' इति विकल्प्य उक्तं च सूत्रकृदङ्गवृत्तावित्येवंरूपेण द्वितीयाङ्गवृत्तिमध्यभ्याख्यातवान् यथा तेन मूढेन नातः परं कोऽपि सूत्रकृदङ्गवृत्तेर्वाचयिता ज्ञाता वा श्रोता वा भविष्यतीतिनिश्चित्यालीकैव सम्मतिर्दर्शिता तथाऽनेनापि, जिनदत्तादारभ्याद्य यावत्त| था४ तसम्मतिदानेऽस्य गृहरीतिः, यतो जिनदत्तेन नवपदप्रकरणवृत्तिस्तथैवाभ्याख्याताऽतो मूलाचार्यप्रवृत्तिः सर्वैरप्यभ्युपगतेति| गाथार्थः || १४४ || अथ प्रवचनसारोद्धारवृत्तेरभिप्रायमाह -
वित्तीय संगरपमुहापडिएवि उत्तरुवदहिं । विगड़गयं विण्णेअं तप्पडिए पुण भवे नियमा ॥ १४५।। तद्वृत्तौ प्रवचनसारोद्धारवृत्तौ उक्तरूपलवणादिसंयुक्तदधि संगरिप्रमुख पतितेऽपि संगरादिके अपतितेऽपि विकृतिगतं निर्विकृतिकं ज्ञेयं, पतिते पुनः- तत्र संसरादौ पतिते तु नियमात् - निश्चियेन निर्विकृतिकमेव भवेत्, प्रवचनसारोद्धारवृत्तिर्यथा “दधिविकृतिगतान्याह - "दहिए विगड़गयाई घोलवडा घोलसिहरिणी करंबो । लवणकणदहिअमहिअं संगरिगाईमि अप्पडिए ॥१॥"त्ति, | दधिविषये विकृतिगतानि पञ्च, घोलवटकानि, तथा घोलो-वस्त्रगलितं दधि तथा शिखरिणी - करमथितखण्डयुक्तदधिनिष्पन्ना, तथा करम्बको दधियुक्त कूरनिष्पन्नः, तथा लवणकणयुक्तं दधि मथितं राजिकारवाटकमित्यर्थः तच्च संगरिकादिके अपतितेऽपि विकृतिगतं भवति, संगरिकापुंस्फलशकलादौ पतिते पुनर्भवत्येव २८ || इति गाथार्थः ॥ ४५ ॥ अथ खरतराभिप्रायं दूषयितुं
युक्तयन्तरमाह
संगरिकाया अद्विदलता
।।३५८ ।।
1