________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ३५५॥
यस्मिन् पीड्यमाने यन्त्रादाविति गम्यं स्नेहो 'नहु' नैव भवति तच्छ्रुतधरा द्विदलं ब्रवन्ति, द्विदलेऽप्युत्पन्नं स्नेहयुतं द्विदलं न भवत्येवेतिगाथार्थः || १४० ।। अथौष्ट्रिकभ्रान्तिमाह
एवं विदलसरूवं भणिऊणवि भणइ बिदलवग्गगयं । संगरिगाई चवलयफलिउ विदलसनोत्ति ॥ १४१ ॥ प्रागुक्तगाथोद्भावनेन द्विदलस्वरूपं भणित्वाऽपि संगरिकादिकं द्विदलवर्गगतं द्विदलजातीयं भणति चपलफलिकेत्र, यथा चपलफलिका द्विदलं तथा फलिकासाम्यात्संगरिकाऽपि द्विदलमिति ब्रुवाणः कीदृशः १ - 'द्विदलसंज्ञः' द्विदला - द्विदलीभूता-स्फुटिता संज्ञा यस्य स तथेति, एकद्विदलशब्दस्य लोप इति बोध्यमितिगाथार्थः ॥ १४१ ॥ अथ संज्ञाराहित्यं कुत इत्याह
जं उक्कालिअसंगरजलतरिआ दीसई फुडं णेहो । चक्खुप्फासणविसओ पञ्चकखं चक्खुमंताणं ॥ १४२ ॥ यद्यस्मात्कारणादुत्कालितसंगरिकाजलोपरिवर्तिनी तरिका चक्षुष्मतां चक्षुःस्पर्शनविषयीभूता प्रत्यक्षं स्फुटं स्नेहो दृश्यते, अयं भावः - खरतरेण संदेहदोलावल्यां संगरिकादौ सर्वथा स्नेहाभावो भणितः, स च प्रत्यक्षबाधितः, यत उत्कालितसंगरिकाजले या स्नेहरूपा तरिका सा चक्षुषा दृश्यते, स्पर्शनेन्द्रियेण चिकणतोपलभ्यते, एतच्चानुभवसिद्धं सर्वेषामपि सलोचनानां, प्रत्यक्षापलापस्तु खरतरमन्तरेण केन कर्तुं शक्यते ?, अतः प्रत्यक्षापलापित्वात् खरतरः संज्ञारहित इति गाथार्थः ।। १४२ ।। अथौष्ट्रिकाभिप्रायरूढां संस्थितिमाह
जं दोलावत्तीए भणिअं भणिअं च संगरं विदलं । पवयणसारोद्वारो संगरिमाहम्मि अप्पटिए || १४३ ॥ लावृत्तौ - पदैकदेशे पदसमुदायोपचाराजिनदत्तकृतसंदेहदोलावल्याः वृत्तौ भणितं किमित्याह - भणितं चत्ति-भणितं च संगरि
संगरिकाया द्विदलताप्रतिषेधः
।।३५५॥#