________________
विचार
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५०||
जह वा परपरिगहिआ जिणपडिमा भद्दओऽवि उस्सुत्त। मुणिगुणजुत्तोवि कुसीललिंगिवग्गेऽवि परिचत्तो॥१३५।।
यथा वा परपरिगृहीता-हरिहरादिबुद्ध्या मिथ्यादृष्टिपरिगृहीता जिनप्रतिमा हरिहरादिप्रतिमेव त्याज्या,उत्सूत्रे-उत्सूत्रभाषिमार्गे पतितः कदाचित्कोऽपि भद्रकोऽपि-वस्तुतोऽव्यापनदर्शनोऽपि व्यवहारनयावलम्बिमिरुत्सूत्रभाषिवल्याज्यः, सम्यग्दृशां द्रष्टुमकरप्यत्वात् , कुशीललिङ्गिवर्गे-पार्श्वस्थादिसमुदाय मुनिगुणयुक्तोऽपि-साधुगुणसमन्वितोऽपि पार्थस्थादिवस्याज्य इति गाथार्थः | ॥१३५। अथ दार्टान्तिकयोजनाय गाथामाह
एवं निअगुणविलयाभावे विदलाइ रत्तिअंतरिअं। कुहणसहावयवग्गे पडिअंपरिहेअमेवत्ति ॥१३६।।
एवम्-अनेन प्रकारेण प्रागुक्तयुक्त्या निजगुणविलयाभावे-अविनष्टत्वे, सत्यपीतिगयं, विदलादि राज्यन्तरितं, द्वितीयदिने इत्यर्थः,कदाचित्किश्चित्स्यात् तथापि कुथितस्वभावकः-कुत्सितः स्वभावः स्वभावका कथनेन हेतुना स्वभावको यस्य स चासो वर्गश्च स कथनस्वभावकवर्गः तत्र पतितं द्विदलाद्या पर्युषितं द्विदलपूपिकादि परिहार्यमेवेति गाथार्थः।।१३६।। अथैवं कुत इन्याह
ववहारोबहु बलवं लोए लोउत्तरे अ मग्गंमिः । तस्सुच्छेए तित्थुच्छेओ छेएहिं निहिलो ॥१३७॥ व्यवहारो-व्यवहारनयप्रवृत्तिः लोके-लौकिकमार्गे लोकोत्तरे-जैनप्रवचने व्यवहार:-श्रुताद्यनुसारेण बाहुल्यप्रवृत्तिः बहुवल-| | वान्-अतिबलिष्ठः,यदागमः-"ववहारोबहु(विहु)बलवं जंछउमत्थंपि वंदए अरहा । जा होइ अणामिन्नो जाणंतोधम्मयं ए॥१॥" (३-१२३ भा०) इति, तस्योच्छेदे-तद्विलोपे छेकैः-निपुणैर्गणधरादिमिः तीर्थोच्छेदो निर्दिष्टः, यदागमः-"जइ जिणमयं पवजह ता मा ववहारनिच्छयं मुअह । ववहारनउच्छेदे तित्थुच्छेओ जओऽवस्सं ॥१॥ (१७२) इति श्रीपञ्चवस्तुके इति गाथार्थः
KO॥३५०॥