SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ।। ३५१।। || १३७|| अथ पर्युषितशब्दाद्भान्तस्य खरतरस्य भ्रान्तिनिराकरणाय पर्युषितशब्दस्वरूपमाह पज्जूसिअसद्दत्थो अहिगारवसेण होड़ णाणन्ति। जो जत्थ जहा वृत्तो जुत्तो तह चेव णो इहरा ॥ १३८ ॥ पर्युषितशब्दार्थोऽधिकारवशेन-प्रकरणवशेन नानेति-नानाप्रकारोऽनेकप्रकारो भवति, तेन योऽथों यत्र प्रकरणे यथोक्तो - येन प्रकारेण पण्डितैर्भणितः स तथैव विचार्यमाणो विचारसङ्गतो भवति, नो इतरथा, यत्र कापि भाविताऽर्थोऽन्यत्र सर्वत्रापि तथैव विचार्यमाणो न युक्तिमङ्गतो भवति गाथार्थः || १३८ || अथ पर्युषितशब्दस्यानेकधा कविप्रयोगं दर्शयति कथवि storiसे पुराणभावे कहिंचि वावण्णे । कत्थवि सीअलभावे रतंतरिएवि पज्जुसिओ || १३९|| पर्युषितशब्दः कचित् स्थानभ्रंशे - उत्पत्तिस्थानाद्रष्टे प्रयुक्तः, तथाहि - "वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा:, पुष्प पर्युषितं त्यजन्ति मधुपाः दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरुषं त्यजन्ति गणिका भृष्टं नृपं सेवकाः, सर्वः स्वार्थवशाजनोऽभिरमते | नो कस्य को वल्लभः १ ॥ १ ॥ इत्यत्र वृक्षानिजोत्पत्तिस्थानाद्भष्टं पुष्पं पर्युषितं भणितं तच्च भ्रमरास्त्यजन्ति, तद्वद्भोगिनोऽपि नराः - कोद्धरितं क्रूरादिकं पाकस्थाल्याः स्थास्यान्तरे संक्रामितं पर्युषितं भण्यते तद्भोजिनो न भवन्ति, अत एवाद्यापि निर्गतersi क्रूरादिकं भोगिनी न भुञ्जते इति लोकोक्तिरपि, प्रान्तं - पर्युषितमित्योपपातिकवृध्यादौ, तथाहि " से किं तं रसपरिचा, २ अणेगविहे पं० तं० णिवीतीए पणीतरसपरिच्चाए आयंबिलए आयामसित्थ भोई अरसाहारे बिरसाहारे अंताहारे पंताहारे लहाहारे। | सत्तरसपरिचाए" ति श्रीऔपपपातिकसूत्रं, एतद्वृत्येकदेशो यथा 'अंताहारे 'ति अन्ते भवं आन्तं जघन्यधान्यं बल्लादि 'पंताहारे'ति प्रकर्षेणान्तं बलाद्येव मुक्तावशेषं पर्युषितं वा इत्यौप० ० अत्र प्रान्तशब्देन पर्युषितं भणितं यत्तु वल्लादेर्विशेषणं प्रान्तं तथापि पर्युषितंविचारः ॥३५१ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy