________________
श्रीप्रव चनपरीक्षा ४ विश्रामे
॥३४३ ॥
जुगुप्सितं यद् राद्धं सदर्थादार्द्रमिति गम्यं पर्युषितं रात्र्यन्तरितं द्विदलं मुद्रमापादिधान्य विशेषः, आदिशब्दात्पौलिकादिपरिग्रहः, | तादृशमलीकम् - अनुक्तमप्युक्तमित्यसदभ्याख्यानेनासत्यं सिद्धान्तवचनं भणित्वा मूर्खों भक्षयतीतिगाथार्थः॥ ११६ ॥ अथ पर्युषितं द्विदलादिकं कीदृशं भवतीत्याह
रतंतरिअं विदले चलिअरसं पोलिआ उ लालजुआ । ओसन्नं तेण तयं न भुंजई साणुकंपमई ॥११७॥ राज्यन्तरितं द्विदलं चलितरसं विनष्टं संभवेत्, पोलिका च लालायुता - द्वीन्द्रियजन्तुविशेषसंयुक्ता भवेद्, यदागमः - "मि|च्छत्तम संचइए विराहणा तत्थ पाणजाईओ । संमुच्छणा य तकण दवे अ दोमा इमे हुंति || १ || इति श्रीकल्प भाष्ये, तद्वृत्तिर्यथा अशनादिकं रजन्यां परिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिध्यात्वं गच्छेदुड्डाहं वा कुर्याद्-अहो अमी असंचयिका इति, तथा परिवासिते संयमात्मविराधना भवति, तत्र संयमविराधना भाव्यते - सक्तुकादिषु धार्यमाणेषूरणिकादयः प्राणजातयः संमृच्छन्ति, पूपलिकादिषु लालासंमूर्च्छना च भवति, उन्दरो वा तत्र तर्कणम् - अभिलापं कुर्वन् पार्श्वतः पार्श्वतः परिभ्रमन् मार्जारादिना भ क्ष्यते, एवमादिका संयमविराधना, आत्मविराधना तु तत्राशनादौ लालाविषसप लाला मुश्चेत् त्वग्विषो वा जिघ्रन् निःश्वासेन विषीकुर्याद् उदरो व लालां मुञ्चेद्, द्रवे चाहारे रात्रौ परिवास्यमाने एते वक्ष्यमाणा दोषा भवन्तीति श्रीकल्पवृत्तौ । तथा "चलितरसं कुथितानं पर्युषितद्विदलपूपिकाद्यनेक जन्तु संसक्तत्वाद्, उपलक्षणात्पुष्पितोदनपक्वान्नादिदिनद्वयातीतदध्याद्यपि चेति श्रावकप्रतिक्रमण सूत्रवृत्तौ 'ओसन्नं'ति ओसन्नं प्रायेण तेन तर्क - कुत्सितं तत् तकं द्विदलादि सानुकम्पमतिः- त्रसानुकम्पान्वितबुद्धिर्न भुंक्त इतिगाथार्थः ॥ ११७ ॥ अथ परः शङ्कते -
पर्युषितविचार:
॥३४३ ॥