________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३४२||
कसेलकादिजलाधिकारः
तया बहुषु स्थानेषु भणनात् , तथाहि 'उसिणोदगतत्तफासुअं, पडिगाहिज संजए'त्ति श्रीदशवै०, तथा 'उसिणोदगतत्तभोइणो धम्मे ठिअस्स मुणिस्स हीम"त्ति श्रीसूत्रकृदङ्गे वैतालीयद्वितीयाध्ययने, तथाऽन्यत्राप्युष्णोदकं साधूनामुत्सर्गतः प्रवचनोक्तमेब बोध्यं, न पुनरेवं क्वापि कसेल्लकजलमिति, अधिकत्वं चोत्सर्गपदेष्वनुक्तस्यापि भणनाद् , इदं च विवक्षया न्यूनोत्सूत्रेऽपि पतत्यपवादपदेभ्यः परित्यक्तत्वादिति गाथार्थः ॥१४॥ अथ कसेल्लकपानीयग्रहणे त्रसयतनाद्यभावे यत्स्यात्तदाह__ तसजयणाइअभावे संजमलेसोऽवि दरतरवडिओ। एवंविहोवि मग्गो उम्मगो केरिसो हुन्जा?॥११५॥
सयतनाद्यभावे सम्यक्त्वमपि न संभवति, तस्य लक्षणस्याप्यभावात् , सम्यक्त्वलक्षणं त्वेवं-"शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥" इति श्रीयोगशास्त्रे, सम्यक्त्वाभावे च कुतः संयमगंधोऽपि ?, आस्तां सर्वविरतिसंयमः, देशविरतिपरिणामोऽपि दूरतरपतितः-अतिदविष्टतरः तद्गन्धस्याप्यभाव इत्यर्थः, अयं भावः-सम्यग्दृष्टिदेशविरतिवी त्रसयतनापरायणो भवति, अयं तु यतिलिङ्गधरोऽपि न तथेति कथं साधुः?, एवं सत्यपि यदि हे खरतर! त्वदभिमतः पूतरादित्रसजन्तुविराधनाहेतुः शीतलकसेल्लकजलग्रहणमपि मागों-ज्ञानादिरूपो मोक्षस्य भवेत तर्हि कीदृश उन्मार्गः ?, अय| मेवोन्मार्गो, नान्य इति गाथार्थः ॥१५।। अथ पुनरप्यधिकमुत्सूत्रमाहसावयकुलपडिसिद्धं पज्जुसिअविदलमाइ ज रद्धं । सिद्धंतवयणमलिअंभणिऊणं भवए मुम्वो ॥११६।।
श्रावककुलप्रतिषिद्धं-नाम्नापि यः श्रावक इति ख्यातिमान् तदीयकुले प्रतिषिद्धं रात्रिभोजनवदिदमप्यकल्प्यमितिवचनप्रवाहेण १ अजीवं परिणयं णचेति पिण्डैपणाप्रथमो शके सप्तसप्ततितमाया गाथायाः पाठान्तरमिदं, तत्रोष्णोदकाधिकारात्
॥३४२॥