________________
श्रीप्रववनपरीक्षा ४ विश्रामे
॥३३७॥
भणंतो नमोकारमुञ्चरिअ भगइ करेमि भंते । पोसहं इत्यादि यावद्वोसिरामित्ति, एवं सामायिकेऽपि पंचमंगलं पढित्ता करेमि भंते !,' इत्याद्येवंविधोऽपि तेन जिनदत्तेन त्यक्तः, एकवारमुच्चारं परित्यज्य त्रिवारमभ्युपगत इत्यत्र द्विरुच्चरणमधिकमितिगाथार्थः ॥ ११२ ॥ अथ पुनरप्यधिकमुत्सूत्रमाह
साहणं उवहाणं गिहिब अहिअंति जेण तक्किचं । आवस्सयजोएणं सिद्धं सिद्धतबुद्धीणं ॥ ११३ ॥ | गृहिवत्-श्रावकवत् साधूनामप्यावश्यकश्रुताराधनार्थमुपधानवहनं यत् तदधिकं येन कारणेन तत्कृत्यं षडावश्यकाराधनलक्षणं श्री आवश्यक योगेनैव सिद्धं, केपां ? - सिद्धान्तबुद्धीनां तच्चविदां न पुनः कुपाक्षिकाणामपि ननु स्वयमुपधानोद्वहनमन्तरेण कथं | श्रावकाणामुद्वाहयितुं शक्यते इति चेत् मैवं यतः सामायिकपौषधद्वादशवतोच्चारादिष्वपीयमेव रीतिः प्रसज्येतेति स्वयं विचारणीयमितिगाथार्थः ॥ ११३ ॥ अथ पुनरपि तदाह-
| उस्सग्गेण कसेल्लयजलगहणं साहुणावि ही मोहा । तंचिअ मट्टिअभायणसंगइअं कह णु तसजयणा ॥ ११४ ॥ उत्सर्गेण - मुख्यवृच्या कसेल्लकजलग्रहणमुपलक्षणात् क्वाथजलादिपरिग्रहः, ही इति खेदे, मोहात - चारित्रमोहनीयोदयात् तथा श्रद्धानपुरस्सरं तथाविधजलग्रहणं साधोरपि श्रावकाणां सुतरामित्यपिशब्दार्थः, तथापि - कसेल्लकादिजलग्रहणमपि च मृत्तिकाभाजनसंगतिकं - कुण्डादौ प्रक्षिप्तं नु इति वितर्क, कथं त्रसजन्तुयतनेति ?, न कथमपीत्यर्थः यतस्तथाविधं शीतलजलं कुम्भादिमृत्तिकाभाजनगतं प्रायः शीघ्रमेव त्रसादिजन्तुयोनिः स्यात् तद्यतना साधूनां न संभवति, ननु शुद्धविकटमुष्णोदकं वर्णान्तरादिप्राप्तं | शुद्धजलं वा इति श्रीकुलमण्डनमूरिकृतपर्युषणाकल्पावचूर्णे तथा संदेहविपौषध्यां चोक्तं कथं कसेल्लादिनीरं न गृह्यते इति
कसेलका
दिजलाधिकारः
॥३३७||