________________
गोपहारचर्चा
श्रीप्रवचनपरीक्षा ४विश्राम ॥३३२॥
र्षको जिनदत्तोऽपि घुणाक्षरन्यायेन जिनवल्लभमभिनिवेशवन्तं व्यञ्जितवान् ,तथाहि,-"असहाएणावि विही पसाहिओजोन सेससूरीहिं । लोअणपहेवि वच्चइ वुच्चइ पुण जिणमयण्णू । हिं॥१॥” इतिगणधरसार्द्ध०१२२ गाथा,तवृत्तिर्यथा-ततो येन भगवताऽसहायेनापि एकाकिनापि परकीयसहायनिरपेक्षम् ,अपिर्विस्मये,अतीवाश्चर्यमेतद् ,विधिः-आगमोक्तः षष्ठकल्याणकरूपश्चेत्यादिविषयः पूर्वप्रदर्शितश्च प्रकार:-प्रकर्षण इदमित्थमेव भवति योऽत्रार्थेऽसहिष्णुः स वावदीविति स्कन्धास्फालनपूर्वकं साधितः सकललोकप्रत्यक्षं प्रकाशितः,यो न शेषमूरीणाम् ,अज्ञातसिद्धान्तरहस्यानामित्यर्थः,लोचनपथेऽपि दृष्टिमार्ग,आस्तां श्रुतिपथे,ब्रजति-याति,उच्यते पुनजिनमतज्ञैः-भगवद्वचनवेदिभिरिति गण० वृत्तौ,एवंविधवक्ता त्वनाभोगवान् न भवति,किंत्वभिनिवेशवानेवेति जिनदत्तेनापि सूचितं, तदुक्ताभ्युपगन्तृत्वेनात्मनोऽपि "पूण्ड मूलपडि मंपि साविआ चिइनिवासिसम्मत्तं । गम्भावहारकल्लाणगंपि नहु होइ वीरस्स ॥१॥" इत्युत्सूत्रपदोद्घाटनकुलकवचसा तथा ज्ञापितं,किंच-जिनवल्लभ एव तावदित्थं प्रष्टव्यः-भो जिनवल्लभ पञ्चकल्याणकवादिनः श्रीहरिभद्रसूरिप्रभृत्यः तीर्थसम्मता उत नेति, नेति वक्तुमशक्यत्वेन तीर्थसम्मतत्वे सिद्ध तीर्थमपि पश्चकल्याणकवाद्येव सिद्धं, तथा च असहाएणावित्ति निष्ठरवचसा सर्वानपि पूर्वाचार्यान् तिरस्कृत्य तीर्थासम्मतं षष्ठं कल्याणकं प्ररूपयन् कथं त्वं तीर्थस्पर्यपीति स्वयमेव पर्यालोचय, एतेन सिद्धान्तरपारगामी जिनवल्लभसूरिरिति यजिनदत्तापत्यीयानां वचस्तदपि निरस्तं, 'पंचहत्युत्तरे' इत्यादिवचनेन षष्ठं कल्याणकं व्यवस्थापयन् सिद्धान्तगन्धेनापि शून्यो जिनवल्लभ इत्येव प्रवचनविदामध्यक्षसिद्धत्वादित्यलं प्रपश्चेतिनेतिगाथार्थः॥१०१।। अथ श्रीवीरचरित्रे सर्वत्रापि गर्भसंहरणपाठनियमे युक्तिप्रदर्शनपुरस्सरमुपसंहरबाह
तम्हा जं संहरणं चरिण निअमेण संगईघडणं । देवाणंदुप्पन्नं वीरं तिसला पसूअत्ति॥१२॥
॥३३२।।