SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥३२६॥ कलाग१ रयणीपोसहम्मि सामइअं२ । तिगुणुच्चारो पोसहसामइएसुं३ कसेल्लजलं४ ॥९४॥ पज्जुसि अविदलपोलिअगहणं५ विदलंति संगरप्पमुहं । इच्चा अहिउस्सुत्तं किरिआविसयं मुणेअष्वं ॥ ९५ ॥ श्री वीरस्य गर्भापहारः कल्याणकं भवति १ रात्रिपौषधिकानां रात्रिचरमयामे सामायिक२ सामायिके पौषधे च नमस्कारत्रय| पूर्वकत्रिर्दण्डको चारः ३ कसेल्लकजलग्रहणं ४ पर्युषितद्विदल पूपिकादिग्रहणं५ संगरप्रमुखं द्विदलमिति श्रद्धानंद इत्यादि क्रियाविषयमधिकमुत्सूत्रमिति, व्यक्त्या वक्ष्यमाणानामिहोद्दिष्टत्वम्, अन्यथाऽनेकसंख्याकानामुत्सुत्राणां सद्भावात् तेषां च विचारणे ग्रन्थस्य | लक्षप्रमाणत्वेऽप्यविश्रान्तेः तेन यानि यानि स्थूलधीधनानामपि वक्तुं शक्यन्ते तान्येवात्रोद्दिष्टान्युत्सूत्राणि बोध्यानीति द्वारगाथातात्पर्यम् || ९४ ९५ || अथ क्रमेण व्यक्तीकृत्य दूषयितुमाह तत्थवि अहिअंगभावहारकल्लाणगंति वीरस्स । जिणवल्लहेण भणिअं मिच्छाभिनिवेसवसगेण ||१६|| तेष्वपि उक्तलक्षणेषूत्त्रेषु वीरस्य - श्री महावीरतीर्थकृतो गर्भापहारकल्याणकं षष्ठमितिधिया जन्मादिकल्याणकदिनानीवाश्वि| नसितत्रयोदश्यप्याराध्येतिकृत्वा तदाराधनक्रियारूपमधिकमुत्सूत्रं खरतरमते बोध्यं तच्चास्यामवसर्पिण्यां प्रथमतो जिनवल्लभेन | खरतराभिमतेनाभिनिवेशवशगेन भणितं - प्रकाशितम्, अत एव तन्मिथ्येतिगाथार्थः ॥ ९६ ॥ अथ जिनवल्लभेन भ्रान्त्या यत्सिद्धान्तवचनमवलम्ब्य प्ररूपितं तद्वाक्यमाह भाइ भणियं च सुत्तेऽवि पंचहत्त्तरेत्तिवय गेहिं । गभावहाररूवं छहं कल्लाणगं वीरे ॥९७॥ जिनवल्लभो भणति - निजश्रावकाणां पुरः सिद्धान्ताभिज्ञताचातुरीमा विष्करोति-भो श्रावकाः ! अद्य षष्ठं श्रीमहावीरगर्भापहारक तर्भापहारचर्चा ॥३२६||
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy