SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ खरतरोत्सूत्राणि श्रीप्रवचनपरीक्षा ४विश्रामे ॥३२५॥ ताग्रणीश्रीमुनिसुन्दरसूरिप्रभृतिभिः पूर्वाचायरनेकशो दृषिता इतिगाथायुग्मार्थः ।८९।९०॥ अथ प्ररूपणयापि भेदं दर्शयन्नाह जं पुण परूवणाए भेओऽभयदेववल्लहाणंपि । वल्लहजिणदत्ताणं तमणंतर वुच्छमुस्सुत्ते ॥११॥ | यत्पुनः प्ररूपणया अभयदेववल्लभयोः-पदैकदेशे पदेतिन्यायाच्छ्रीअभयदेवमूरिजिनवल्लभयोरपि पुनर्जिनवल्लभजिनदत्तयोश्च भेदः-पार्थक्यं तदनन्तरमुत्सूत्रे-उत्सूत्रोद्घाटनावसरे वक्ष्ये इतिगाथार्थः ॥९१॥ इति श्रीअभयदेवमूरिः खरतरनाम्ना कलङ्कितो नास्तीति प्रसङ्गतो भणितमिति, अथ खरतरमतोत्सूत्रदिदर्शयिषया प्रथममुत्सूत्रभेदानाहअह उम्सुत्तं दृविहं किरिआविसयं च वयणविमयं च । किरिआविसयं तिविहं दुविहं पुण वयणविसयंति॥१२॥ ___'अथेति नामादिव्यवस्थापनानन्तरमुत्सूत्रं द्विविध-क्रियाविषयं वचनविषयं च, क्रियैव विषयो यस्य तक्रियाविषयं, यद्यपि यक्रियाविषयं भवति तद्वचनविषयमपि भवत्येव तथापि मुख्यवृत्त्येतिबोध्यम् , एवमग्रेऽपि, वचनं विषयो यस्येति तद्वचनविषयं | चेति द्विप्रकारं स्यात् , तत्र क्रियाविषयं त्रिविधं द्विविधं पुनर्वचनविषयमितिगाथार्थः ॥९२।। अथ त्रिविधं द्विविधं च व्यक्तीकरोति___ अहिअं? अगं२ अजहहाणं चुस्सुत्तमेव किरिआहिं । उम्मग्गदेमणामग्गनासणेहिं दुहा वयणं ॥९३|| अधिक ऊनं२ अयथास्थानं३.च उत्सूत्रमधिकाराक्रियाविषयमेवकारो व्यवहितः संवध्यते क्रियाभिरेव स्याद् ,अयं भावःतीर्थकुदुक्तक्रियासु निजबुद्ध्या किञ्चिदधिककरणं तदधिकमुच्यते, एवं न्यूनकरणमपि, या क्रिया यत्र स्थाने भणिता तस्यास्तव्यतिरिक्तस्थाने करणमयथास्थानमिति,तथोन्मार्गदर्शनमार्गनाशाभ्यां वचनं-वचनविषयमृत्सूत्रं द्विधा भवति, एतच्च तीर्थकद्भाषितादधिकन्यूनभाषणाभ्यामेवेति गाथार्थः॥९३।। अथ द्वारगाथायुग्ममाह ॥३२५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy