SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीअभय देवा न श्रीप्रवचनपरीक्षा ४विश्रामे| ॥३२४॥ खाद्याः प्रभावकचरित्र श्रीअभयदेवमूरिश्रीहेमचन्द्रसूरिप्रभृतीन् जिनशासनप्रभावकत्वेन प्रभणन्त एव खरतरं स्तनिकपङ्कौ प्रक्षिप्तवन्तः, यत एवं तस्मादुत्सूत्रमार्गपतितः प्रभावको न भवति, कुतो?-विरोधाद्, विरोधस्त्वेवम्-उत्सूत्रमार्गपतितो यद्यपि कदाचिदन्यतीथिकैरपि सहासंभविनमपि जयमवाप्योन्नतिमवाप्नोति तथापि न प्रवचनप्रभावकः, किंतु स्वाश्रितमार्गस्यैवोद्दीपकः,स चोद्दीपितो मार्गो विशेषतः प्रवचनोपघाती स्याद् , यथा दिगम्बरपक्षीयो जयी जातः सन् गर्वितात्मा श्वेताम्बरपक्षमुच्छेत्तुमेव समीहते, तस्मादुत्सूत्रमार्गाश्रितत्वप्रवचनप्रभावकत्वयोरन्योऽन्यं शीतोष्णस्पर्शयोरिख सहानवस्थानलक्षणो विरोधः, तथा च कुतः खरतरनामाड्कितः स सरिरिति गाथार्थः।।८८।। अथैवमुक्तो कोऽप्यन्यथाभावमापन्नोऽपि कीदृग् स्यादिति प्रदर्शनाय गाथायुग्ममाहपाण कोइ मूढो मच्छरगसिओह होइ वायालो। अन्भासवत्तिओ वा नेहंतो तंमि मुहरि सिआ ।।८९॥ एमो न दूसिअधो न दृसिओ जेण पुत्वसूरीहिं । सोऽवि मुहमुहिओ बलु आणाभंगाइवयणेहिं ॥९॥ एतेन-प्रागुक्तयुक्तिप्रकारेण सोऽपि मुखमुद्रितो भवतीतिसंबन्धः,मः कः ?, यः कोऽपि मूढः-प्रवचनपरमार्थानभिज्ञः अथवा मत्सरग्रस्तः यद्यन्यैरयं तिरस्क्रियते तर्हि मयाऽयमुपष्टम्भनीय इत्येवं मत्सरग्रस्तः वाचालो भवेद् , अथवा खरतरः महालापसंलापादिनाऽभ्यासवशतस्तस्मिन् खरतरे स्नेहयन् खरतरो मां मित्रं जानात्वितिधिया मुखरीस्याद् , वाचालत्वं चोल्लिखन्नाह-एमो ने'त्यादि एषः-खरतरो न दूषयितव्यः, येन कारणेन पूर्वसूरिभिः कैश्चिदपि न दृषित इत्येवं वक्ता मुखं मुद्रितं जातं यस्येति मुखमुद्रितो जातो विज्ञेयः, खलुरवधारणे, वक्तुमशक्त एवेत्यर्थः, के?-आज्ञाभङ्गादिवचनैः-"आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भये" रित्या| दिभिः श्रीमुनिसुन्दरमरिप्रभृतिसम्मतिवचनैः,प्रागुक्तः,अयं भावः-न हि स्वयमेव कुतश्चित्कृत्रिमनिमित्ताद्दषयामः, किंतु सुविहि madeI wUPASAIRAIMIMSPIRIRANI INDIA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy