________________
श्रीप्रवनपरीक्षा ४ विश्रामे
॥३२३ ॥
अह पायं बहु खायं खरगरवयणाओं खरयरो सूरी। नवअंगिवित्तिकारो तमसचं भिन्नमवि बोच्छं ||८६ ॥ अथेतिप्रागुक्तयुक्त्यपेक्षया पार्थक्यसूचकः खरतरवचनात् - नवाङ्गवृत्तिकारोऽस्मदीयः खरतर इत्येवंरूपेण खरतरवचनान्नवाङ्गवृत्तिकारः खरतर इति बहु ख्यातं प्रायः, प्रायोग्रहणात्प्रवचनपरमार्थवित्स्वस्मदीयप्राचीनाचार्येषु न ख्यात इत्यर्थः, तद्वद्दृ ख्यातमसत्यं, भिन्नमपि वक्ष्ये इतिगाथार्थः ॥ ८६ ॥ अथोक्तसमर्थनाय युक्तिमाह -
जह सिरिजिणेसरो सो खरयरनामेण होइ सुपसिद्धो । ता कहमम्हायरिआ खरयरनामेण धिक्कुजा || ८७|| यदि श्रीजिनेश्वर रिः खरतरनाम्ना सुप्रसिद्धो भवेत् ता - तर्हि अस्मदाचार्याः- श्रीसोमसुन्दरसूरिप्रभृतयः खरतरनाम्ना कथं तान् | धिक्कुर्युः - धिकारं कुर्वीरन ?, धिकारोल्लेखमाह - " हुं नन्देन्द्रियरुद्रकाल ११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारुण १२०४काल औष्ट्रिकभवो विश्वार्क १२१३ कालेऽञ्चलः। षट्यर्कषु१२३६ च सार्द्धपौर्णिम इति व्योमेन्द्रियार्के १२५० पुनः, काले त्रिस्तु| तिकः कलौ जिनमते जाताः स्वकीयाग्रहात् || १ ||" इत्यत्र राकास्त निकादिवत्खरतरोऽपि कलौ स्वकीयाग्रहाद्-अभिनिवेशाञ्जात इत्युक्तं, तथा " आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः, प्रायः स्वैरं प्रवर्तिताः॥ १ ॥ उपधानप्रतिक्रान्तिजिनाचदिनिषेधकाः । न्यूनिता दुष्पमादोपात्प्रमत्तजनताप्रियाः ||२||" इत्यत्र स्त्रीजिनाचनिषेधकः खरतरः सोऽप्यनन्त संसारी भणित इत्यादि प्रागुक्तं श्रीजिनेश्वरसूरेः खरतरत्वे कथं संभवति १, न संभवतीति न खरतरचिह्नं तस्येतिगाथार्थः ॥ ८७ ॥ अथास्मदीया आचार्याः न केवलं खरतरोऽनन्तसंसारीत्येवमुक्तवन्तः, किंतु श्रीअभयदेवसूरिं प्रभावकमपीत्याह
पणतावि पभावयचरिण्ऽभगदेवहेमचंदाई। उस्सुत्तमग्गवडिओ पभावगो होड न विरोहा ||८८||
श्री अभय
देवा न
खाद्याः
॥ ३२३ ॥