________________
खरतरचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१६॥
जम् ।।२॥" इत्यादिः सदाचारोऽपि तेन पापात्मना निन्दितः, एतच्च जिनप्रभसूरिकृते तपागणदूषणशतके,नचैवमनेनैव सदाचारो निन्दितः, किंत्वेतत्कुलक्रमस्त्वयमेव, तथाहि "मुद्धाणाययणगया चुका० मग्गाउ जायसंदेहा। बहुजणपिढिविलग्मा दुहिणो हुआ समाहूआ॥१॥" इतिगणधरसार्द्धशतके,अत्र वृत्तौ-पौर्णमीयकादिदूषणद्वारा तपो दृषणीयः,यथा लिखितं तथा चाह,अथवा मलिनगात्रदुर्गन्धपात्रावश्रावणतन्दुलधावनादिपायिनां गुरुकुलवासत्यागिनां तपस्विनामित्यादि भणितं, तच्च सचेतनानां श्रोतृणां धर्मप्राप्तिहेतुरप्येतेन विपरीततया परिभाव्य लिखितं तच्चायुक्तमेव,यतो मलादिधारणं तु साधूनामुचितमेव, यदागमः-"सिणाणं अदुवा ककं, लुद्धं पउमगाणि अ । गायस्सुबहणठाए, नायरिंति कयाइवि ॥२॥ इति दशबै० (२७२*) तथा "किलिनगायमेहावी, पंकेण व रएण वा। प्रिंसु वा परितावेण, सायं नो परिदेवए ॥११। वेइज्ज निजरापेही, आरिअंधम्मणुत्तरं। जाव सरीरभेउत्ति,जल्लं काएण धारए ॥२॥ इति उत्तरा० (८४-८५*) तथा "आयामगं चेव जवोदणं च, सीअं सोवीरं जवोदगं च। नो हीलए पिंड| नीरस्स पन्तं, कुलाई परिबए जे अभिरकू ॥१।। इति श्रीउत्तरा० (५०६*) तथा पर्युषणाकल्पेऽपि "चउत्थभत्तियस्स" इत्यादि प्रतीतमेव, एवमागमोक्तं तन्दुलधावनादिपानं तु साधूनां युक्तमेव, यच्चोक्तं 'गुरुकुलवासत्यागिना' तच्चाध्यक्षबाधितं, वक्तुरेवानाप्तत्वसूचकम् , एवं जिनप्रभेण तत्पूज्यश्च यानि कृत्यानि जिनेन साधूनां भूषणतया भाषितानि तानि दक्षणतयोद्भावितानि, अत एव श्रीमुनिसुन्दरसूरिभिः प्रागुक्तप्रकारेण स्तनिकवत् खरतरोऽप्यनन्तसंसार्यव, तन्मध्यपतितो जिनप्रभोऽपि म्लेच्छाधिपतिप्रतिबोधकोऽपि प्रवचनोपघात्येव, उत्सूत्रभाषिणां प्रवचनोपघातकत्वनियमात् , न पुनः प्रवचनप्रभावकः,अन्यथा दिगम्बरादीनामपि प्रवचनप्रभावकत्वं स्यात् , यतस्तत्प्रबोधिता राजानोऽद्यापि दक्षिणस्यां विद्यन्ते, तस्माद् म्लेच्छादिप्रतिबोधनोद्भावनमकिश्चित्करमेव,
॥३१॥