________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१७॥
HTRINITISHTHANISitemaltimamar
mil marrint H DRASIMILAIN
(
यतस्तत्प्रतिबोधितोऽपि स्त्रीपूजानिषेधादिलक्षणमौष्ट्रिकमागमेव श्रद्धत्तवान् , न पुनस्तीर्थकरभाषितं तीर्थसम्मतं मार्गम् , उपदेशस- खरतरचर्चा सतिकाकारस्तु निजपूर्वाचार्यविरचितप्रकरणानुपयोगेनौष्ट्रिककृतप्रकरणादिविश्वासेन च प्रवचनोपघातकमपि जिनप्रभं म्लेच्छप्रतिबोधकमात्रेणापि प्रवचनप्रभावकतया वर्णितवान , अत एव पं० सोमधर्मस्यानाभागः स्फुट एव-अध्यक्षसिद्धः, ननु जिनप्रभेण तपागणः प्रशंसितोऽपि दृश्यते, तथाहि-"पुरा श्रीजिनप्रभमूरिभिः प्रतिदिननवस्तवननिर्मापणपुरस्सरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसा अभ्युदयिनं तपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षादिपठनविलोकनाद्यर्थ यमकश्लेपचित्रच्छन्दोविशेषादिनवनवभङ्गिसुभगाः सप्तशतीमिताः स्तवा उपदीकृताः निजनामाङ्किताः, तेवयं सर्वसिद्धान्तस्तवो बहूपयोगित्वाद्विवियते इति जिनप्रभमूरिकृतसिद्धान्तस्तवावचूर्णी, तथा क्वापि-"श्रीशत्रुञ्जययात्रायै गच्छता जिनप्रभेण सिद्धपुरे तपागणनायकाः श्रीसोमतिलकसूरयो बह्वाडम्बरेण वन्दिता इत्यपि लिखित दृश्यते तत्कथं घटत इतिचेदुच्यते, यसिद्धान्तस्तवावचूर्णी लिखितं तत्तु तदीयैरेव,न पुनः केनाप्याप्तभृतेन सम्मतेनात्मीयेन पूर्वजेनेत्थं लिखितम् ,अतः कथं सम्यगास्थापूर्वकनिर्णयः?,किंचयत् स्तवावच्णों प्रत्यक्षपद्मावतीवचसेत्युक्तं तच्च स्वमेऽपि नास्माकं श्रद्धानविषयः, यतो नद्युन्मूत्रभाषिसमीपे सम्यग्दृष्टिदेवता प्रादुभवति, किंतु ततो दूरत एव नश्यति, तस्माद् यथा मम स्वमे शासनदेवतया भणितं यत् श्राद्धप्रतिष्ठा पूर्णिमापाक्षिकं चानादिसिद्ध त्वया न मोच्यमिति सङ्घस्य पुरश्चन्द्रप्रभाचार्येण भणितं तथा यथाऽऽश्चलिकमताकर्षकनरसिंहोपाध्यायेन पावकगिरौ मिथ्यादृक् | कालिकादेवी आराधिता लोकानां च पुरो मम चक्रेश्वरी प्रत्यक्षीभूतेति निजमतविश्वासोत्पादनाय स्वप्रौढिमज्ञापनाय चोक्तं, तथा|| जिनप्रभोऽपि किंचित्क्षेत्रपालादिकदेवविशेषमाराध्य मम पद्मावती प्रत्यक्षीभृतेति प्रोक्तवानितिश्रद्धेय,यत्तु सिद्धपुरे सोमतिलकमूरयो ॥३१७॥
PIRITUTHIARPAHIMIRAM