SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥३१५॥ उपदेशसप्ततिकाकारकः पं० सोमधर्मः प्रत्यक्षमनाभोगी येन कारणेनानन्तसंसारी भणितोऽपि - श्रीमुनिसुन्दरसूरिभिः स्तनिका| दिपंक्तौ निवेश्यौष्ट्रिकोऽनन्तसंसारीति कथितोऽपि तेन सोमधर्मेण स्तुतः, अनन्तसंसारीभणितः तथाचाह - " आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः, प्रायः खैरं प्रवर्त्तिताः || १ || उपधानप्रतिक्रान्तिजिनाचदिनिषेधतः । न्यू निता दुष्षमा दोषात् प्रमत्तजनताप्रियाः॥२॥ यत्तत्प्रा सुकमिष्टाम्बुप्रवृत्यादिसुखावहाः ।। " इत्यादिना गुर्वावल्यां भणितं, तत्रोपधानप्रतिक्रा|न्तिनिषेधकौ यथा पूर्णिमीयकाञ्चलिका तथा आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयत्वेन स्त्री जिनाचनिषेधकः खरतरोऽप्युक्तः, तदन्तर्गतो जिनप्रभोऽप्यनन्तसंसारी भणितः सोमधर्मगणिना ' म्लेच्छाधिपतिप्रतिबोधको जिनप्रभमूरिर्जिनशासनप्रभावक' इत्यादिवचनैरुन्नतिं प्रापितः, स च कीदृश: ? - धर्मप्रतिपक्षः- धर्मद्वेषी, यतस्तदीयवाग्विलास स्त्वेवं- "बाह्यक्रियादर्शनेन, मोहयन्तो जगञ्जनम् । तपोभूता अटन्तीति, तपोऽटाः परिकीर्तिताः || १ || तपोटानां मतं चैव मुद्गलानां मतं तथा । शाकिनीनां मतं चैव, प्रायस्तुल्यानि वक्ष्यते ||२|| संक्लिष्टपरिणामित्वात्तुल्यमेतन्मतत्रयम् । तस्माद् दूरतरं त्याज्यं, भावशुद्धिमभीप्सता ||३|| अयुक्तमुक्तमथवा, मिथ्यादुष्कृतमस्तु नः। शाकिनीमुद्रले भ्योऽपि यत्तपोष्टा दुराशयाः ॥ ४॥ शाकिनी मुद्गलात्तानां दृश्यतेऽद्याप्युपक्रमः। तपोटेनार्दितानां तु, चिकित्सा स्यादरा भृशम् ||५|| हिनस्ति जन्मन्येकत्र, शाकिनीमुद्गलग्रहः । तपोटकुग्रहस्त्वेष, प्रणिहन्ति भवे भवे ॥ ६ ॥ विपर्यस्तधियः क्रूराः परर्द्धिमसहिष्णवः । गुरुलाघव विज्ञानवन्ध्याः शासननिंदिनः || ७||" इत्यादि तपानिन्दनवाक्यानि तथा “ज्ञानमुष्णपयःपानं, दर्शनं मुखमुद्रणम् | चारित्रं तर्कयाम्येषां केवलं मलधारणम् ॥ १ ॥” तथा “वर्णान्तरादिप्राप्तं सत्, प्रासुकं च श्रुते स्मृतम् । न्यवारि शिशिरं वारि, तदपि नेति गेहिनाम् ||९|| अष्कायमात्र हिंमोत्थं निरस्य प्रासुकोदकम् । प्रारूपि गृहिणामुण्णं, वाः पकायोपमई खरतरचर्चा ।।३१५ ।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy