________________
खरतरचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१२॥
कहमण्णह बारससयचउवरिसे खरयराणमुप्पत्ति। भासंतावि नवंगीवित्तिकरो खरयरोत्ति वयं ॥७५॥
कथमन्यथा-यद्यनाभोगो न स्यात्तर्हि कथं द्वादशशतचतुर्वर्षे १२०४ चतुरधिकद्वादशतसंवत्सरे खरतराणामुत्पत्ति भाषमाणा नवाङ्गीवृत्तिकरः खरतर इति वचो, भाषन्त इति गम्यम् , अयं भावः-खरतरमतस्योत्पत्तिः सं० १२०४ जाता,श्रीअभयदेवमूरिणा श्रीस्थानाङ्गवृत्तिः सं० ११२० वर्षे कृता, यदुक्तं-"श्रीविक्रमादित्यनरेन्द्रकालात् , शतेन विंशत्यधिकेन युक्ते । समासहस्रेऽतिगते विदृब्धा, स्थानाङ्गटीकाऽल्पधियोऽपि गम्या ॥१॥" इति श्रीस्थानाङ्गवृत्तिप्रशस्ती, इति परस्परं विचारणा यदि कृतास्या त्तर्हि को नाम खरतरकलई नवाङ्गीवृत्तिकर्तुर्ददाति ?,अत एव प्रायः कुपाक्षिकानुवादात्प्रवृत्तिरसम्यगेव स्यात् ,यत्तु कश्चित्तदानी १२०४| रुद्रपल्लीयखरतरोत्पत्तिरितिरसम्यग् , यतो रुद्रपल्लीयसंज्ञा न जिनशेखरत एवोत्पन्ना, किंतु जिनशेखरतश्चतुर्थपट्टधरात् श्रीअभयदेवसरितः, यदुक्तं रुद्रपल्लीयरेव-"पट्टे तदीयेऽभयदेवमूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः। जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥१॥” इति वृत्तिप्रशस्ताविति गाथार्थः ॥७६॥ अथ प्रायः प्रवचनादत्तोपयोगो भूयान् जनः खरतरवचनानामनुवादक एव दृश्यते अतस्तदनुवादापवदनाय काश्चन युक्तीः सूत्रत एव दर्शयन् गाथामाहजं पुण कत्थवि पुत्थयलिहिअंदीसह अ खरयरे गच्छे । सिरिअभयदेवसूरी तप्पट्टे वल्लहो लिहिओ ॥७७॥
यत् पुनः क्वापि पृथक्पत्रादिषु सद्यस्कप्रकरणादौ वा लिखितं दृश्यते, तल्लिखितोल्लेखमाह-खरतरगच्छे श्रीअभयदेवमूरिस्त| पट्टे श्रीजिनवल्लभसूरिरित्यादीतिगाथार्थः ॥७७॥ अथ तल्लिखितं समर्थयन्नाह
तं खरयरवयणाणं अणुवाओ भद्दयाणऽणाभोगा। जह कल्लाणगछटुं कत्थवि कप्पस्स वखाणे ।।७८||
ITAMINFIRMIRPATRAPATI
॥३१२॥