________________
श्रीप्रच
परीक्षा
४ विश्रामे
॥३११॥
धपरिज्ञानाभावात् विषमपि पिबति, जलमध्ये प्रक्षिप्तं विपमप्यनाभोगात् पिबन्तो बहवो दृश्यन्ते, तर्हि अन्यहरे आस्तां तथा इदमपि मतं शेषकुमतापेक्षया साधुप्रतिष्ठाचतुर्द्दशीपाक्षिकोपधानादिवाहनादिभिर्बहुभिर्धर्मैः साम्यदर्शनादना भोगात्कथंचित् केषांचित्प्रवचन | परमार्थानभिज्ञानां तथाप्रवृत्तिविषयीभूतमितिगाथार्थः ॥ ७३ ॥ अथानाभोगः सम्यग्दृशामपि स्यादिति दर्शयति
सम्मरिट्ठीगंपि अ अणभोगो जिणवरेहिं निहिट्ठो । सो अइआरो निष्णयवयणं जा तअणु बिवरीअं ॥ ७४ ॥ सम्यग्दृष्टीनामपि चानाभोगो जिनवरैः संदिष्टः, यदागमः- “सम्मद्दिड्डी जीवो उवड्डुं पवयणं तु सदहह । सदहद्द असन्भावं अणभोगा गुरुनियोगा वा ॥ १ ॥” इति श्रीउत्तराध्ययननिर्युक्तौ (१६३ ) स चानाभोगो निर्णयवादं यावदतीचारः सम्यग्दृशां, परस्परं विवादे यावनिर्णयो न भवति तावदतिचारः, तदनु निश्वये जाते विपरीतं, यदि सम्यग् श्रद्दधाति तदा सम्यक्त्वं निरतिचारम् अथ न तर्हि मिथ्यात्वमभिनिवेशरूपं, निर्णयेऽपि स्वकीयकदाग्रहामोचनादितिगाथार्थः ॥ ४७ ॥ अथ निर्णयें विवादाभावे हेतुमाह
बहुकालवृरदेसंतरिआणं निष्णपि को कुणइ ? । उप्पण्णंमि विवाणु निष्णयवयणं जह इआणि ॥ ७२ ॥
बहुकाल दूर देशान्तरितानां यस्योत्पन्नस्य कुमतस्य कालो भूयान् जातः अथवा दूरं गतः - स्वदेशं परित्यज्य विपक्षभूतात्तीर्थाइंरदेशं गतः तस्य निर्णयमपि कः करोति ?, न कोऽपीत्यर्थः एवं सत्यप्युत्पन्ने विवादे निर्णयवचनं भवत्येव यथा इदानीं विवादे | जाते खरतरमतं यथावत्स्वरूपं विचार्यमाणमसारतयैव प्रकटीभृतम् असल्योक्तस्य तथास्वभावाद्, यदुक्तं - " यथा यथा विचार्येत, विशीर्येत तथा तथा । असत्योक्तं बहीरम्यं नान्तः खरपुरीषवत् ||" इतिगाथार्थः ॥ ७५|| अधानाभोगादिकमा विष्कुर्वनाह
खरतर चर्चा
॥३११ ॥