________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥३०७॥
औष्ट्रिको, यस्माजिनशेखरो मूलं जातः, रुद्रपल्लीयसमुदायस्य मूलं जिनशेखरः, स च जिनवल्लभस्य संभोगी गुरुबन्धुः, अत एव तदनुजानां पट्टावली त्वेवं चान्द्रकुले श्रीवर्द्धमानमूरिस्तत्पट्टे श्रीजिनेश्वरसूरिस्तत्पट्टे श्रीअभयदेवनूरिस्तत्पट्टे श्रीजिनवल्लभसूरिस्तत्पट्टे श्रीजिनशेखरसूरिस्तत्पट्टे श्रीपद्मचन्द्रसूरिस्तत्पट्टे श्रीविजयचन्द्रसूरिस्तत्पट्टे श्रीअभयदेवसूरिरित्यादि, किंच-सं० | १४२२ वर्षे श्रीसंघतिलक सूरिकृतदर्शन सप्ततिका वृत्तिप्रशस्तौ जिनशेखरो महानुभावतया भणितः, यदुक्तं - " तच्छिष्यो जिन| शेखरो गणधरो जज्ञेऽतिविज्ञाग्रणी" रित्यादि, यस्तु खरतरेण पामरोष्ट्रवद् बहिर्निष्काशनयोग्यो दुरात्मेत्यादिना वर्णितः स एव तावत् तत्रेत्थं वर्णितः, तेन "जिणवल्लहसरिसो पुण पुणोऽवि जिणवल्लहो चेव"त्ति वर्णनेन न तुष्टिर्विधेया, अयथार्थवर्णनस्याकिंचित्करत्वादिति प्राग्दर्शितमिति, एवं जिनवल्लभपट्टे जिनशेखरे विद्यमानेऽन्यस्य जिनदत्तादेः पट्टधरत्वकल्पनं कलङ्क एव, अत्रापि पपरम्परा श्रीवर्द्धमानाचार्यत एव लिखिता, न पुनरुद्योतनसूरेरपीति प्रसङ्गतो जिनदत्तापत्यस्य वितथलिखनमध्यसूचि, किंचरुद्रपल्लीयैरपि स्वगच्छोत्पत्तिश्चन्द्रकुलादुक्ता, न पुनः खरतरगच्छात्, यदि श्रीजिनेश्वरसूरेः खरतरविरुदमभविष्यत्तर्हि तत एव स्वीयोत्पत्तिरुक्ताऽभविष्यदित्यपि बोध्यमिति गाथार्थः || ६७ || अथ यदि खरतरमतोक्तं प्रायोऽसत्यमेव तर्हि तदीयप्रकरणादिषु सर्वेषामेकवाक्यता कथं स्यादिति पराशङ्कामपाकर्तुमाह
जिणवसूरी खरयरम्यमेराकरणसुत्तहारसमो । जह जिणसमए मेराकारो वयरो अ सुत्तेसु ॥६७॥ खरतर मत मेरा करणसूत्रधारसमः - खरतरमर्यादाकरणे सूत्रधारकल्पः जिनपतिसृरिरासीत्, दृष्टान्तमाह-यथा जिनसमये - जैनशासने सूत्रेषु सूत्रपाठरचनायां मर्यादाकारो वज्रस्वामी अपश्चिमश्रुतधरः अयं भावः - विकल्पितमपि मतं बहुकालान्तरितं प्रायः
|जिनवल्लभचर्चा
1130911