________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३०६ ॥
| तदनुक्तयुक्तिप्रकारेण विचारणीया, यतस्तद्विचारणायां तन्मतस्वरूपं सुदृशां करतलामलकवद्भवतीतिगाथार्थः || ६४ || अथ खरतरामिमतस्य जिनवल्लभस्य स्वरूपमाह -
खरयर मयस्स सीसो नासी आसी व सो अ गुरुबंधू । जिणसेहरनामेण न सम्मओ वंचिओ अहवा || ६५||
खरतरमतस्य - खरतराणां मतः - अभिमतस्तैरङ्गीकृतस्तस्य जिनवल्लभस्येति गम्यं शिष्यो नासीत्-शिष्यतया प्रवर्त्तमानः कोऽपि | नासीद्, आसीद्वा स गुरुबन्धुः - एकगुरुशिष्यो वैयावृभ्यनिमित्तं श्रीजिनेश्वरसूरिणा नियोजितः शिष्यस्वरूपेण स्थितः, केन नाम्ना :जिनशेखर नाप्ना, सोऽपि न सम्मतोऽर्थाजिनवल्लभस्थापितविधिसंघस्य नाभिमतः, अनिष्ट इत्यर्थः, अथवा स वंचितः अर्थात् सो| मचन्द्रेण यदि मां गुरुत्वेन प्रपद्यसे तर्हि त्वां गुरुमित्र पालयामीत्यादिना केनापि विधिना स बराको विप्रतारित इति संभावनेत्यर्थ । इतिगाथार्थः || ६५ || अथ प्रागुक्तसमर्थनाय हेतुमाह
अण्णह तप्पट्टधरो जिणदत्तो कहणु तंमि संतंमि ? । संभोगी गुरुबंधू जोग्गोऽजोग्गो व संभवः ||६६|| अन्यथा तस्मिन् सति-विद्यमाने जिनशेखरे नु इति वितर्क तत्पट्टधरो - जिनवल्लभपट्टधरो जिनदत्तः कथं स्याद् ?, यतः स जिनशेखरो योग्योऽयोग्यो वा गुरुबन्धुः संभोगीतिकृत्वा पट्टधरः संभवति, न पुनर्विसंभोगिको जिनदत्त इति गाथार्थः ॥ ६६ ॥ अथ खरतराभिमतजिनवल्लभसंताननिर्णयमाह
खरयर मयजिणवल्लहसंताणं जड़ हविज ता नृणं । मद्दोलिओ अ जम्हा जाओ जिणसेहरो मूलं ||६७ || खरतरमतजिनवल्लभसंतानं - खरतराङ्गीकृत जिनवल्लभस्यापत्यप्रवृत्तिर्यदि भवेत् ता तर्हि नून- निश्चितं रुद्रपल्लीयः, नान्य
जिनवल्लभ
चर्चा
॥३०६ ॥