________________
(
A
श्रीप्रवमहावीरस्य पश्चैव कल्याणकान्युक्तानि, खरतराभिमतस्य तु पट्कल्याणकव्यवस्थापकत्वं स्कन्धास्फालनपूर्वकं सर्वजनविदितं गण-DIA
जिनवल्लभचनपरीक्षा) | धरसार्द्धशतके सविस्तरं खरतरस्याप्यभिमतमिति सर्वजनप्रतीतयुक्तिमिर्भिन्नोऽयं जिनवल्लभ इति गाथार्थः ॥६३॥ अथ स जिन
चर्चा ४विश्रामे वल्लभः कीदृश इत्याह
सो अभयदेवसीसो संभोई अहव सम्मओ समए । तेणं तकयपगरणपमुहंपि पमाणपय त्तं ॥६४।
स जिनवल्लभोऽभयदेवसूरिशिष्यः संभोगी स्वहस्तदीक्षितो न पुनरुपसंपन्नः, अथवोपसंपन्नोऽपि संभोगिकः सन् तीर्थसम्मतः, न पुनः खरतराङ्गीकृतजिनवल्लभवदुत्सूत्रप्ररूपणारसिकः, यत एवं तेन कारणेन तत्कृतप्रकरणप्रमुखं प्रमाणपदप्राप्त, तीर्थन प्रमाणीकृतमित्यर्थः, तत्कृतप्रकरणानि प्रकरणानि खरतराभिमतजिनवल्लभकृतानीति खरतरैराख्यायतेऽन्येषामपि तथैव प्रतीतिरितिचेसत्य, वितथजल्पने वितथलिखने च शङ्काराहित्यं खरतराणां स्वभाव एवेति प्राकथितं,वक्ष्यते च 'जिणवइसूरीति गाथायामिति, तथा स्वभावो यावद्यैः सम्यग् ज्ञातो न स्यात्तावत्तेषां तदनुवादेन तथा प्रतीतिदुर्निवार्यैव, अत एव तदीयमुखनिर्गतवाक्यानि श्रुत्वा तदनुवादभूतानि भूयांसि वाक्यानि प्रवचने प्रवृत्तानि यथा नवाङ्गीवृत्तिकारकश्रीअभयदेवमरिः खरतर इत्यादीनि तथा प्रवृत्तानि यथाऽद्यापि सम्यग्विचारणाक्षमानां नापगच्छन्तीति, परमित्थं विचारणीयं-ये तु कर्णजापपरम्परया आचार्याभूय तत्पट्ट-| धरत्वमात्मन उद्घोषयन्तो न लज्जन्ते तेषां नामसाम्याद्यथा श्रीजिनेश्वरसूरिशिष्यत्वेन श्रीअभयदेवमूरेगुरुभ्राता जिनवल्लभ इति क्वचिल्लिखितं वदन्ति च केचित्तदीयाः सांप्रतमपि तथाऽन्यकृतानि प्रकरणानि स्वाभिमतजिनवल्लभकृतानि वदतां कियती लज्जेति स्वयमेव विचार्य सुदृशैः, खरतरोक्तानुवादोऽपकर्णनीयः, एवमुक्तेऽपि यस्य सम्यगास्था न स्यात्तेन खरतरपट्टावल्येव प्रागुक्ता 0॥३०५१.
PANEmes
ASIA
NAL