________________
श्रीप्रव चनपरीक्षा
४ विश्रामे ३०४
नणु जिणवल्लहरी पसंसिओ तुम्ह पुत्रसूरीहिं । तेणं तद्दोसवयं अलिअं न विअत्ति वत्तवं ॥ ६१ ॥ ननु जिनवल्लभसूरिर्युष्माकं पूर्वसूरिभिः प्रशंसितः तेन कारणेन तद्दोषवचनम् - तद्दोषाविष्करणवचनमलीकम्-असत्यं, पापहेतुरित्यर्थः, 'न विअ'त्ति नैवेतिवक्तव्यम्? अलीकवचनं न भवत्येवेति प्रश्नोत्तरवचनमिति गाथार्थः॥ ६१॥ अथ पराशङ्कावचनमसत्यमित्यत्र हेतुमाह
जिनवल्लहो अ सूरी पसंसिओ जो अ पुत्रसूरीहिं । सो खरयरअंगिकया भिन्नो नियमेण विष्णेओ ६२ ॥ यस्तु जिनवल्लभसूरिः प्रसिद्ध सूरिभिः श्रीमलयगिरिप्रभृतिभिः कर्म्मग्रन्थवृत्तौ प्रशंसितः, पूर्व जिनदत्तमतोत्पत्तेः पूर्वं स जिनवल्लभः खरतरैरङ्गीकृताजिनवल्लभाद्भिन्न एव विज्ञेय इति गाथार्थः ॥ ६२ ॥ अथ भिन्नत्वे यो हेतुः प्रयुक्तस्तत्र युक्तिमाह'तस्स रामदेवो सीसो छास इचुण्णिकारो अ । कल्लाणगसंधवणे पंचैव जिदिवीरस्स ||३३|| यद्-स्मात्तस्य- मिन्नस्य स्वरतराभ्युपगतजिनवल्लभादितरस्य षडशीतिचूर्णिकारः- श्रीजिनवल्लभसूरिकृतषडशीतिकर्मग्रन्थस्य चूर्णेः कर्त्ता जिनवल्लभसूरेः रामदेवो - रामदेवनाम्ना शिष्य आसीत य उक्त षडशीतिचूण, एवंविधः शिष्यः खरतराभ्युपगतस्य चैत्यवासिशिष्य जिनवल्लभस्य कोऽपि नासीदिति खरतर एव द्वितीयो भणितो, नापरः कोऽपि प्रब्राजितो मिलितो वेति, किंच-तथा| विधबहुश्रुते शिष्ये च विद्यमाने केनाप्यज्ञातो विसंभोगिकः सोम बन्द्रनामा द्रव्यलिङ्गी जिनदत्तनाम्नाऽऽचार्यांींभूय जिनवल्लभस्य पट्टधरः कथं भवेदिति नेत्रे निमील्य पर्यालोच्यं, तथा कल्याणकसंस्तवने - "सम्मं नमिऊण जिणे चउवीसं तेसि चैव पत्तेअं । वुच्छं चुइ१ जम्म२ दिखा ३ णाणं४ निवाण५ कल्लाणे || १|| कत्तिअबहुले पंचमी "त्यादि कल्याणकस्तवने जिनेन्द्रवीरस्य-श्री
जिनवल्लभचर्चा
॥३०४ ॥