________________
P MA
P
जिनवल्लभ
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३०८||
प्राचीनाचायः सह संगतीकतुं शक्यते,यो येन योजयितुं शक्यते तत्तेन विकल्प्यर नियोज्य लिखित, पश्चाच गणधरसार्द्धशतकवृत्यादिरूपेण प्रवर्तितं,तत्कल्पना त्वेवं-यदि वयं श्रीसुधर्मस्वामिनोच्छिन्नपरम्परागता न भवामस्तर्हि अन्येषामभिभवनीया भविष्याम इति विचिन्त्य पट्टावली विकल्पिता, सा च गुरुशिष्यत्वादिसंवन्धे सत्येव नान्यथेतिक्रत्वा प्रत्यासन्नेष्वाचार्येष्ववश्यं संबन्धः कल्पनीयः, तेन कथंचित्संबन्धो जिनवल्लभस्य श्रीअभयदेवमूरिणा सह विकल्पितस्तत्रापि मूरिपदमन्तरेण तत्पधर| त्वमसंभवीतिकृत्वा कर्णजापपरम्परासमुद्भवमाचार्यपदं विकल्पितं, विरुदमपि सहेतुकमितिहेतुः, तत्र दुर्लभराजसभायां श्रीजिने|श्वरसूरेश्चैत्यवासिभिः सह विवादे जयात्तेपां लोके राज्ञा च खरतरविरुदं दत्तं, तेनास्मदीयान्वये नवाङ्गीवृत्तिकराः संजाता इत्या| त्मनो मुधोत्कर्षमुद्घोषयंतोऽपि तीर्थेनोपेक्षिताः सन्तस्तीर्थसमा इत्याख्यां मुग्धजनेभ्यो लब्धवन्तः, तथाऽपरजिनवल्लभकृतानि | पिण्डविशुद्ध्यादीनि प्रकरणान्यप्यस्मदभिमतजिनवल्लभक्तानीति वचनेन जिनवल्लभोऽपि मुधा ख्यातिपदवीमारोपितः, एवमास्तामन्यत् ,श्रीभद्रबाहुस्वामिकृतं "जइजा समणे भयवमिति स्तोत्रमपिप्रान्ते नवीनगाथां प्रक्षिप्यास्मदीयश्रीअभयदेवसूरिकृतमित्युद्घोषितमित्यादि सर्वमपि 'यो यथा बुद्ध्यते जन्तुस्तं तथा बोधयेद् बुधः' इति वाक्यं शरणीकृत्य जिनपतिसूरिणा ब्रह्माण्डकल्पं स्वमतं विकल्प्य तदनुसारेण मर्यादा कृता सर्वेषां सम्मता जाता,प्रकरणानि तु प्रायस्तदन्वेव निष्पन्नानि,यानि च पूर्व निष्पन्नानि तानि चाननुगतविचारनिष्काशनपूर्वकानुगतविचारप्रक्षेपयुक्तानि कृतानि, अत एवैकवाक्यता प्रायो ग्रन्थेष्वपि दृश्यते,न पुनः सर्वथा,यतः पौषधविधिप्रकरणे सामायिकोच्चारे नमस्कारत्रयपूर्वकत्रिरुचारोऽसन्नपि तदुद्धाररूपे लिखितः,स चासंगत एवेत्याद्यनेकमसंगतमपि विकल्पितम् ,अथैवंविधेऽपि मर्यादाकरणे देशेन दृष्टान्तमाह-'जह जिणे'त्यादि यथा सूत्रेषु-सूत्रपाठेषु श्रीवज्रस्वामिना मर्यादा
RRIAARAMITAHANImatil
timillmmmmmm P IRATHIMILAIMANASAIRAULATHALINITIATHI
mmit
॥३०॥