SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे MAR MINDIA खरतरपहावली विचारः N NAHINI श्रीजिनचन्द्रसूरिपट्टधरः कथितस्तदप्ययुक्तं,यतः श्रीजिनचन्द्रेण प्रसन्नचन्द्रः स्वपदे स्थापितः, श्रीअभयदेवमूरिस्तु न शिष्यो न चाध्यापितो नवाऽऽचायीकृतः,किंतु जिनचन्द्रस्य गुरुभ्राता जिनेश्वरसूरिणैव जिनचन्द्रवद्दीक्षितोऽध्यापितः, सरिकृतश्चेति, नहि सुधर्मस्वामी गोतमस्वामिपट्टधरः किंतु श्रीवीरस्यैव, तथाऽयमपि श्रीजिनेश्वरमरिपट्टधरो युक्तो,न पुनस्तल्लिखितविधिनेति । तथा श्रीउद्योतनमरेः पट्टधरतया श्रीवर्धमानाचार्यो लिखितस्तदप्ययुक्तं, श्रीउद्योतनमूरिणा निजशिष्यःश्रीसर्वदेवसूरिः पट्टधरतया व्यवस्थापितः, श्रीवर्द्धमानाचार्यस्तु चैत्यवासं परित्यज्य श्रीउद्योतनमूरिपार्श्वे चारित्रं गृहीत्वा विसंभोगिकः सन्नेव योगानुष्ठानपूर्वकसूत्रवाचनां गृहीतवान् , परं विहारस्तदाज्ञामात्रेणेति,अत एव श्रीवर्द्धमानमूरिसंतानीयैः श्रीअभयदेवमूरिश्रीवर्द्धमानसूरिप्रभृतिभिस्तथा तदनपत्यजिनवल्लभेनापि श्रीवर्द्धमानमूरिमवधीकृत्य स्वकृतग्रन्थप्रशस्त्यादौ श्रीवर्द्धमानसूरिपट्टपरम्परा लिखिता, न पुनस्ततः प्रागपि सूरिमवधीकृत्येति, तत्र किं निदानमितिचेच्छृणु, तदीयाः प्राचीनाचार्याश्चैत्यवासिनस पामभिधानमयुक्तम् , उद्योतनमूरिस्तु विसंभोगित्वेनपट्टपरम्परायां लिखितुमशक्य इति बोध्यं, यत्तु जिनदत्तापत्यीयाः साम्प्रतं लिखन्ति तचैत्यवासिसंतानतानत्रपाकरेति मत्वा संबन्धमात्रेणापि पट्टधरत्वकल्पना बोध्या, तथा येषां श्रीउद्योतनमूरिः पट्टधरतया पट्टावल्यां लिखितस्तेषां सर्वेषामपि श्रीसुधर्मस्वामिन आरभ्य सदृश्येव पट्टावली दृश्यते, यथा मडाहडगच्छपट्टावली,तथा कुपाक्षिका अपि पूर्णिमीयकादयस्तदनु निर्गतास्तेषामपि श्रीउद्योतनमरितः पूर्व श्रीसुधर्मस्वामिन यावत् न पट्टावलीभेदः,खरतरस्य तु न तदनुकारगन्धोऽपि,किंतु ये ये | युगप्रधानत्वादिगुणैर्विख्यातास्ते ते परस्परं गुरुशिष्यसंबन्धाभावेऽप्यनुक्रमतो व्यतिक्रमतोऽननुक्रमतोऽन्धयुद्धन्यायेन समुदायीकृत्य संख्यापूर्तिर्विहिता तैः, नन्वन्धन्यायः कथमितिच्छृणु,चान्द्रकुलं तावत्सर्वैरपि वर्ण्यते,तच्च श्रीचन्द्रसूरेर्जातं,स च श्रीवत्रसेनशिष्यः PANI RIMINARI NARMINo dilliANJARE
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy