________________
श्रीप्रव चनपरीक्षा ४ विश्रामे
॥ ३०० ॥
विश्वासो न कर्तव्यः, किंतु ततः प्रानिष्पन्नग्रन्थेषु लिखित इति, किंच-बहुकालं भ्रमतापि जिनवल्लभेन कोऽपि न प्रत्राजितोऽतो मास्मदीयं कुमतमग्रे प्रवर्ततामित्यप्यभिप्रायो जिनवल्लभस्यानुमेयो बोध्यः, न चैवमसंभवि, प्रायः पापं कृत्वा भूयान् जनः पश्चात्तापवान् भवत्येव यथा मङ्खलिपुत्रः, एतच्च साम्प्रतमपि दृश्यते, यथा वीजामतीयेन धर्मदासेनाहं चित्रकूटे गत्वाऽस्मदीयं समवायं प्रतिबोध्य श्रीआणंदविमलसूरिं गुरुतया प्रपत्स्ये इति पं० श्रुतसमुद्रसाक्षिकं प्रतिज्ञां कृत्वा चित्रकूटे गतः, तत्रत्यैश्च त दीयैः श्राद्धैः विजने तथा निर्बंधः कृतो यथा वक्तुमप्यशक्तो जातः, तथा पाशचन्द्रेणापि पं० श्रीपतिगणिसाक्षिकं प्रतिज्ञातं यन्मया स्वकीयसमुदायेन सह विचार्य श्री आणंद विमलसूरिं श्रयिष्ये पश्चाद्योधपुरे तदीयैः श्राद्धैः तदेव कृतं यथा मौनमेवाश्रितवान्, तेन प्रवर्त्तितं कुमतं प्रवर्तकाधीनं न स्यात्, किंतु ?, तत्प्रतिबोधित गृहस्थायत्तमेवात एव लुंपाकमुख्यऋषिमेघ जीप्रमुखैस्त्यक्तमपि लुम्पाकमतं न तत्प्रतिबोधितश्रावकैस्त्यक्तं, किंतु विशेषतो नियन्त्रितास्तत्पक्षीया वेषधरा अपीति सर्वजनप्रतीतम्, एवं प्रकृतमतेऽपि बोध्यं कथमन्यथा जिनवल्लभे परलोकं गते वर्षद्वयं यावन्निराश्रयीभूताः केवलश्रावका अपि श्री अभयदेवसूरि संतानीयेषु संविप्रेषु विद्यमानेष्वपि सोमचन्द्रनामानं द्रव्यलिङ्गिनमाचार्यकारयित्वा निजसमुदायं सस्वामिकं कृतवन्तोऽद्य यावत्प्रवाहभागिति दिग्दर्शनेन शेषं स्वधिया बहु पर्यालोच्यं । तथा जिनदत्तवत् जिनवल्लभस्यापि श्रीअभयदेवसूरिपट्टधरत्वमदत्तमेव, विसंभोगस्य पट्टधरत्वासंभवाद्, विसंभोगिकत्वं च "खोलडिउ जिनवल्लभ" इत्यादिवचोभिर्गीयमानत्वात्तेपामपि प्रतीतमेव, यतस्तदीयाः - श्री अभयदेवसूरिपार्श्व भणन्नप्याहारमन्यत्र तृणकुडीरादौ गत्वा कृतवान् जिनवल्लभ इति परं जिनदत्तापेक्षया अयं विशेष:- यजिनवल्लभस्तदीयसमुदायेन पट्टधरतया कल्पितः, जिनदत्तस्तु स्वास्येनैव तत्पट्टधरत्वमात्मन उद्घोषयामासेति । तथा श्रीअभयदेवसूरिरपि
खरतरप
डावली
. विचारः
॥ ३००॥