________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९९॥
खरतरपडावलीविचारः
araininanirani
भयदेवमूरिस्तत्पट्टे४६ श्रीजिनवल्लभमूरिस्तत्प४७ श्री जिनदत्तसूरिस्तत्पट्टे४८ श्रीजिनचन्द्रसूरिस्तपट्टे४९ श्रीजिनपतिमरियः खरतर| गच्छसूत्रणासूत्रधारो बभूव, भाण्डारिकनेमिचंद्रपरीक्षितच, तत्प?५० श्रीजिनेश्वरसूरिस्तत्पद्दे५१ श्रीजिनप्रबोधसूरिस्तत्पट्टे५२ श्री|जिनचन्द्रसूरिस्तत्पदृ५३ श्रीजिनकुशलसूरिस्तत्पद्दे५४ श्रीजिनपधसूरिस्तत्पट्टे५५ श्रीजिनलन्धिमूरिः,एतस्थाचार्यपदं श्रीतरुणप्रभाचा|र्येण सं० १४०० वर्षे दत्तं, १४०६ दिवं गतस्तत्पट्टे५६ श्रीजिनचन्द्रसूरिस्तस्याप्याचार्यपदं तरुणप्रभेण सं० १४०६ वर्षे कृतं, | तत्पट्टे५७ श्रीजिनोदयसूरिस्तत्पट्टे५८ श्रीजिनराजमूरिस्तत्प ५९ श्रीजिनवर्द्धनसूरिस्तत्पट्टे६० श्रीजिनचन्द्रसूरिस्तत्प ६१ श्रीजिन| हंसम्ररिर्विद्यमानः' इति खरतरपट्टावल्यां बहून्यसंबद्धानि, तथाहि-श्रीवज्रस्वामिन आरभ्य जिनदत्तं यावत्प्रायो बहूनां गुरुशिष्यसंबन्धाभावेऽपि अदत्तपट्टधारित्वेनैव पट्टानुक्रमो लिखितो दृश्यते, तथाहि-प्रथमं तावजिनदत्तो जिनवल्लभपट्टधरत्वेन संपन्नः, स चादत्तपट्टधार्येव, नहि जिनवल्लभेन जिनदत्तो निजपट्टे स्थापितो, न वा वाङ्मात्रेणानुज्ञातो, न वा दिग्बन्धादिना शिष्यत्वेनाभ्युपगतः, किंतु जिनदत्तः स्वयमेव दृक्पथानवतीर्णोऽपि धूर्त्तवाक्यमिव जिनवल्लभपट्टधरोऽहमित्यादिवाक्यमुद्भाव्यादत्तपट्टधरो जातः, न च स देवभद्राचार्येण तत्पट्टधरः कृत इति वाच्यं, तदीयपट्टधरत्वमधिकृत्य देवभद्राचार्यस्य दारिद्यात्कथं तदातुं शक्नोति ?, किंच-तस्यापि जिनवल्लभस्यानुज्ञाया अप्यभावेनादत्तमादायान्यस्मै दानमनुचितमित्यपि विचारणीयं, ज्ञात्वा तद्ग्रहणे दाने चोभयोरप्यदत्तमेव, किंच-देवभद्रस्य किं याति यदेवंविधमदत्तमादाय तस्मै दत्तं ?, किंच-जिनवल्लभस्याचार्यपदं खरतरैरेव निजप्रकरणादौ लिखितं दृश्यते, तल्लिखनं त्वकिश्चित्करतया दर्शितं दर्शयिष्यते चान्यतरदपि, यवन्यत्राप्याधुनिकैः क्वापि जिनवल्लभसूरिरिति लिखितं तत्तु जिनदत्तापत्यीयानामनुवादोऽनाभोगाल्लिखितः,तेन चतुरधिकद्वादशशतवर्षेभ्यो लिखिते
amansaman
॥२९९॥