SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥ २९६ ॥ प्रतीतो यथा श्रीमहावीरमङ्खलिपुत्रयोः, नहि मङ्खलिपुत्रः श्रीमहावीरेण प्रत्राश्रितो न वोपसंपन्नः, किंतु कचित्तथाविधप्रश्नोत्तरदानमात्रेण शिक्षितः, प्रव्रज्या च त्वच्छिष्योऽस्मीति मङ्खलिपुत्रवचोमात्राभ्युपगमेनैवैकपाक्षिकाभ्युपगमः, एवं श्री अभयदेववरिजिनवल्लभयोरपि कथंचिदसंभावितोऽपि संभवन्नप्यकिंचित्कर एव तेन जिनवल्लभेनात्मनो मित्रगणसंबन्धित्वमेव ज्ञापितं तद्युक्तमेव, आधुनिकास्तु पट्टधरत्यादिसंबन्धं पूत्कुर्वाणा देवतायत्ता इवावगन्तव्या इतिगाथार्थः ॥ ५३ ॥ अथ खरत|रनामोत्पत्तिमुपसंहरन्नाह - तेणं जह नामदुर्ग जिणदत्ता अहकमेण संजायं । तह जिणदत्तकवाले तइअं तिलयं च विहिलिहिअं ॥ ५४ ॥ येन कारणेन खरतरव्यतिरिक्ताः जिनवल्लभं यावत्सर्वेऽपि जिनेश्वरात् खरतरबिरुदं न वदन्ति तेन कारणेन यथा नामद्विकं चामु ण्डिकौष्टिक लक्षणमभिधानद्वयं जिनदत्ताद्यथाक्रमेण क्रमस्यानतिक्रमेण प्रथमं चामुण्डिकं पचाञ्चौष्ट्रिकमिति, तथा जिनदत्तकपाले- जिनदत्तललाटे तृतीयमपि खरतरसंज्ञापि तिलकमिव तिलकं विधिलिखितं विधात्रा लिपीकृतं. जिनदत्तादेव प्रागुक्तयुक्तया जातं नान्यस्मादपीति केनापि पराकर्तुमशक्यम्, अत एव प्रतिक्रमणप्रान्ते जिनदत्तस्यैव कायोत्सर्गो विधीयते, तस्यैव तन्मताकर्षकत्वादिति लिङ्गमपि बोध्यमितिगाथार्थः || ५४ || अथ सिंहावलोकनन्यायेन प्रसङ्गागत विचारमाह जिणवल्लहो अ कत्थवि इअगाहाएऽवरद्वभागंमि । नाहं तककुलजाओ तंपि अ एअं विआरिजं ॥ १५ ॥ 'जिणवल्लहो अकत्थवी 'ति प्रागुक्तगाथायामपरार्द्ध भागे उत्सद्धे नाहं तत्कुलजात इति जिनवल्लभेन यद्भणितं तदप्येवं वक्ष्यमाणप्र कारेण विचार्य - सम्यग्विया पर्यालोच्यमितिगाथार्थः ||५५|| अथ विचारणामाह खरतरबिरुदचर्चा ॥२९६ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy