________________
खरतरविरुदचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ।।२९५॥
चार्याः इत्येवंरूपेण श्रीअभयदेवमूरयः सद्गुरुत्वेन सर्वसाधारणवचमा वर्णिताः, न पुनर्निजगुरुत्वेनेति. चैत्यवासिनं श्रीजिनेश्वराः चार्य च निजगुरुतयैव वर्णितवान् , तथाहि-कः स्यादम्बुधिबारिवायसचिते व द्वीपिनं हत्ययं, लोकः प्राह हय प्रयोगनिपुणैः कः शब्दधातुः स्मृतः । सूते पालयिताऽत्र दुर्धरतरः कः क्षुभ्यतेऽम्भोनिधेः, सहि त्वं जिनवल्लभस्तुतिपदं की दृग्विधाः के सताम् ? ॥१॥ अत्रोत्तरं मद्गुरखो जिनेश्वरसूरय इत्येवोक्तवान् जिनवल्लभ इति, गुरुशिष्यसंबन्धः श्रीजिनेश्वरसूरिजिनवल्लभयोरेव, न पुनरभयदेवसूरिजिनवल्लभयोरपीति जिनवल्लभवचसैवावबोध्यः, ननु 'तस्योपसंपदमवाप्य ततः श्रुतं चेति चतुर्थचरणेन श्रिनवल्लभेनाप्यु. | पसंपदमधिकृत्य संबन्धः सूचित इति चेत् सत्य, तथाविधसंबन्धस्याकिंचित्करत्वात् , तथाहि-उपसंपन्नत्वमपि श्रुतमधिकृत्य श्रिन-| | वल्लभेनेवोक्तं, तच्च विचार्यमाणं प्रव्रज्यापूर्वकयोगाद्यनुष्ठानमन्तरेण सिद्धान्तवाचनामधिकृत्यासंभव्येवेतिकृत्वा पारिशेष्यातकर्मग्र
न्यादिप्रकरणव्याकरणादिकमधिकृत्य संभवति, न च चैत्यवासिना सताऽपि योगानुष्ठानं कृतं भविष्यतीति शङ्कनीय,गणधरमाद्ध|शतकोक्तवर्णनविशिष्टस्य योगानुष्ठानासंभवात , तेन तथाविधं किंचिच्छतमधिकृत्योपसंपन्नत्वे संभवत्यपि तत्रेदं विचारणीयम् , | उपसंपन्नोऽपि द्विधा-सांभोगिको विसंभोगिकश्च, तत्र सांभोगिको दिग्बन्धादिना समानः, स चैकस्मिन्नेव गणे विद्यमानोऽपि प्रव्राजकाचार्यापेक्षया आचार्यान्तराश्रयी, तस्य च मण्डल्यादिव्यबहारः स्वशिष्यादिवदेव, विसंभोगिकस्तु गच्छान्तरीयो दिग्बन्धादिना विसदृशः, तस्य च शिष्यत्वव्यवहारो विवक्षितकार्यमात्रहेतुकः श्रावकस्येवावगन्तव्यः, श्रावकस्याप्यागमे शिष्यत्वेन प्रतिपादनाद्, यदागमः-"चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवो,सीसो सो उ महप्पओ ॥१॥"ति श्रीउत्तराध्ययनमूत्रे (७५९४) आस्तामुपसंपद् , किंचिच्छिक्षामात्रेणाप्येकपाक्षिकाभ्युपगमेनापि गुरुशिष्यत्वव्यवहारः प्रवचन