________________
खरतरबि
रुदचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ।।२९४॥
ImatiNBUSINHHUDAIRRITAMIN
| जिनो यस्य शिष्याः ॥५॥" इत्यादि जिनवल्लभकृतायां जिनवल्लभीयप्रशस्त्यपरनाम्न्यामष्टसप्ततिकायां, अत्र यदि जिनेश्वर
सूरेः खरतरबिरुदमभविष्यत् तर्हि जिनवल्लभोऽपि चान्द्रकुलमिव बिरुदमप्यवर्णयिष्यत् , तच्च न वर्णितम् , अतस्तद्विषये जिनवल्ल| भोऽपि साक्षिक इत्यर्थः, तथा तद्वंशजो नाहमस्मीत्यवादीत् , श्रीअभयदेवसूरिजिनवल्लभयोगुरुशिष्यसंबन्धो नासीदित्यर्थः, नहि
श्रीअभयदेवसूरिणा जिनवल्लभोऽस्मदीयः शिष्य इत्युक्तम् , एतच्च खरतरस्यापि मम्मतं, यतो गणधरसार्द्धशतकवृत्तौ "चैत्य| वासिशिष्योऽय"मित्यायुक्तं, न पुनः प्रत्रज्यादानदिग्बन्धादिनाऽऽत्मसात्कृत इत्यपि भणितं,तथात्वे चैत्यवासिशिष्यत्वलव्यपदे| शासंभवात ,न वा जिनवल्लभेनाप्यहं श्रीअभयदेवसूरिशिष्य इत्युक्तं,प्रत्युत चैत्यवासिशिष्यत्वमेवोक्तं, यदुक्तं-"लोकायकूर्चपुरगच्छमहाधनोत्थमुक्ताफलोज्ज्वलजिनेश्वरमूरिशिष्यः । प्राप्तः प्रथां भुवि गणिर्जिनवल्लभोऽत्र, तस्योपसंपदमवाप्य ततः श्रुतं च ॥१॥" | इत्यष्टसप्ततिकायाम् ,इयं च श्रीअभयदेवमूरी दिवं गते त्रिंशता चतुस्त्रिंशता वा वगतः ११६४ वर्षे कृत्वा चित्रकूटे श्रीमहावीरप्रासाद छाजकाधः शिलामुत्कीर्य लिखिता,अत्र विचारणीयं-श्रीअभयदेवमूरितस्त्रिंशद्वर्षातिक्रमे चतुस्विंद्वातिकमे वा यदि निजगुरुतया श्रीअभयदेवमूरिं नोक्तवान् तर्हि कदा वक्ष्यति? कथं वा तत्पधरो भवितेति ?,किंच-चैत्यवासं परित्यज्यापि चैत्यवासिनमेव निजगुरुतया श्रीजिश्वनेरसूरिं महता प्रबन्धेन वर्णितवान् ,न पुनरन्यमपि कंचन श्रीवर्द्धमानसूरिप्रभृतिकमपि, एवं प्रश्नकषष्टिशतकेपि, | तथाहि-"पाके धातुरवाचिकः क्व भवतो भीरोमनः प्रीतये,मालङ्कारविदग्धया वद कयारज्यन्ति विद्वज्जनाः। पाणौ किं मुरजिद्विभर्ति भुवि तं ध्यायन्ति के वा सदा, के वा मद्गुरवोऽत्र चारुचरणाः श्रीसुश्रुता विश्रुताः ॥१।। एतेषां प्रश्नानामुत्तरं श्रीमदभयदेवा१ एतत् प्रश्नोत्तरेकपष्टिशतकं स्तोत्ररत्नाकरे सवृत्तिकं मुद्रित
ISTERaninematthalamuantita
।।२९४||