SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ खरतरबिरुदचर्या श्रीपत चनपरीक्षा ४विश्रामे ॥२८९|| जेसलमेरौ कूटलिखनं जनप्रसिद्धं जातं, तस्माद् बहु ख्यातं यथा स्यात्तथा खरतराः क्षीणस्वरा:-मान्यरोगग्रस्ता इव उच्चैःस्वरेण वक्तुमशक्ताः संजाताः, तेन कारणेन कूटलिखनहेतुरिति गाथार्थः ॥४८|अथ चैत्यवासिविवादे दूषणान्तरमाह किंच विवाओ चेइअवासीहिमसंभवीऽवि आयारे । तत्थवि स्वरयरविरुअं जयवाए सवहा नेव ॥४९॥ किंचेति दूषणाभ्युच्चये, चैत्यवासिभिः सह साधूनां विवादोऽसंभवी, अपिरेवार्थे, असंभव्येव, क?-आचार-आचारविषयो वि| वादो न संभवति, चैत्यवासिनां साधूनां चाचारः सर्वजनप्रतीत एव, सिद्धे वस्तुनि साधनायोगाद् , दशवैकालिकादिपुस्तका नयनमयुक्तमेव, आचारे इत्युक्तो कदाचित्पाण्डित्यपरीक्षानिमित्तं तार्किकवादो युक्तोऽपीति ज्ञापितं, तत्रापि-जयवादे खरतरविरुदं | सर्वथा नैव-न संभवत्येव, खरतरनाम्नोऽशुभार्थवाचकत्वादितिगाथार्थः ॥४९॥ अथाशुभार्थवाचकत्वेऽपि दृषणमाह सद्दाणं दुभिक्खे खरयरबिम्अंपि अद्वजरई। खरसदो लोअमुहा तरसद्दो सहसत्थाओ।॥५०॥ शब्दानां दुर्भिक्षे-शुभाशुभार्थवाचकानामन्यशब्दानामप्राप्तौ सत्यां खरतरविरुदमजरतीयम्-अर्द्धजरतीयन्यायमापन, अर्द्धजरतीयन्यायस्त्वेवं-खरशब्दः सत्यवाचित्वेनाभ्युपगमे लोकमुखादेव खरशब्दस्य प्रवृत्तिः, तरशब्दः अतिशयार्थे प्रत्ययलक्षणः, स च शन्दशास्त्रादेवेत्यर्द्धजरतीयन्यायो, वैपरीत्यप्रवृत्तिमद्भयामुभाभ्यामेव खरतरशब्दस्य व्युत्पन्नत्वाद् , अथोभावपि शब्दो व्याकरणनिष्पन्नावेव गृह्यते तद्दतिशयेन खरः खरतरः इति व्युत्पन्या महान् गईभ उग्रतरो वा भण्यते, स च लोकानां मुखादसंभवीति, लोकमुखाच्च विरुदसंभवे तरप्रत्ययप्रयोगोऽसंभवीति विचारणया स्वर्णगिर्यादौ क्रोधाविष्टवाक्श्रावणे खस्तरोऽयमिति भणनं प्रसिद्धं तदेवात्र संभवीति गाथार्थः ॥५०॥ अथ जिनेश्वरमरेः खरतरबिरुदं न जातं तत्र युक्तिमाह-- ॥२८९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy