SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ४ विश्रामे ॥२८८॥ | जेसलमेरौ स्वास्येनैवाभ्युपगतमेवेतिगाथार्थः ॥ ४६ ॥ अथ प्राचीन पाठपरावृत्तिकरणे भयरहिता अतः किं कृतमित्याहतेण महावीरचरिअप्पसत्थिपमुहेसु निम्मलापमुहं । चइऊण खरयरित्तिअ लिहिअं लेहाविअं च तहिं ॥४७॥ येन कारणेन जिनदत्तापत्यानि परलोकभयाभीतानि तेन कारणेन महावीरचरित्रप्रशस्तिप्रमुखेषु गुणचन्द्रगणिकृत श्रीमहावीरचरित्रप्रशस्त्यादिषु निर्मलाप्रमुखं निम्मलाइत्यादिशब्दप्रमुखं त्यक्त्वा - पराकृत्य खरयरीति च लिखित लेखितं च तत्र - तत्स्थाने, | निर्मलादिशब्दस्थाने तैः खरयरीतिकृतं कारितं चेत्यर्थः । तत्कथमितिचेच्छृणु-भवजलहिवायसंभंतभवि असंताण तारणसमत्थो । | बोहित्थो व महत्थो सिरिरिजिणेसरो पढमो || १ || गुरुसाराउ धवलाउ निम्मला साहुसंतई जम्हा । हिमवंताओ गंगुड्ड निग्गया | सयलजणपुजा ||२|| इति श्रीमहावीरचरित्रप्रशस्तौ, अत्रायं विचारः - खरतराणामुत्पत्तिः १२०४ वर्षे सर्वेषामपि सम्मता, तञ्च खरतराणामनिष्टं, अतस्तदपाकरणाय 'निम्मला साहुसंतई जम्हा' इत्यत्र 'खरयरी साहुसंतई' ति लिखितम्, एतश्चरित्रं च 'नंदसिहिरु दसंखे वोकंते विकमाउ कालंमि । जिट्टस्स सुद्धतइतिहिंमि सोमे समत्तमिणं ॥ १ ॥ इतिवचनात् सं० ११३९ वर्षे निष्पन्नम्, | एवं च सति वयं न जिनदत्तमूलकाः किंतु जीर्णा इति मुधाख्यात्यर्थं विपरीतलिखनेनात्मा कदर्शितः, तत्सिद्धिरपि न संजाता, अतः 'कृतश्च शीलविध्वंसो, न चानङ्गः शमं गत' इतिन्यायः संपन्न इतिगाथार्थः ॥ ४७ ॥ अथ कूटलिखनात् सांप्रतं यजातं तदाह पुत्तरनिण्णयओ जेसलमेरुंमि कूडलिहणाओ । खीणसरा संजाया खरखरया तेण बहु खायं ॥४८॥ पुस्तकान्तरनिर्णयात्- खरतर लिखित पुस्तकादन्यस्मात्पुस्तकान्नारदपुर्यादिभ्यः समानीतपुस्तकाद् यो निर्णयस्तस्मात्तपागच्छीयश्रीरत्नशेखरसूरिकृतश्राद्धप्रतिक्रमण सूत्रवृत्ति संबन्धिपुस्तकादुपलक्षणा तदीयप्रासादेषु शिलोत्कीर्णवर्णलिखनादेश्च तच्च प्राग् प्रदर्शितं खरतरचि| रुदविचारः ||२८८ ||
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy