SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ खरतरनाम श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६९॥ | तललाटः सवाष्पारुणलोचनः मां प्रतीत्थं लोको ब्रूते इति द्वेषाभिभूतोऽसभ्यभाषणाय स्फुरदोष्ठः सन् तामसवाग्-मां प्रति | | नोपलक्षध्वमित्यादिरूपेण भयोत्पादनपुरस्सरमाक्रोशदाता जातोऽभूत , पश्चाल्लोकेन भणितम्-अहो खरतरा प्रकृतिरस्य, मौखर्य |च जिनदत्तस्य स्वभावसिद्धं गणधरसार्द्धशतकवृत्तावप्युपलभ्यते,कथमन्यथा मृदुभाषया पृष्टोऽपि कापलिका त्वदीयमुखचूरणा|र्थमित्यादि निष्ठुरभाषी भवेद्?,एतदर्थिना तु प्रागुक्तजिनदत्तचरित्रमेव विलोक्यम् , अद्यापि लोके यस्तामसप्रकृतिर्भवति तस्य खरतरप्रकृतिरिति ख्यातिः स्वर्णगिर्यादौ प्रतीतैव, पश्चात्तेन चिन्तितं-खरतरप्रकृतिकं मां ज्ञात्वा कोऽप्यन्यो मीतो माऽपवदत्वित्यमर्षवशात्तेनाहं खरतरोऽस्मीति मां प्रति समीक्ष्य किंचिद्वक्तव्यं,नाहं सहिष्ये इति तेन जिनदत्तेन खरतरसंज्ञेति प्रतिपन्नमिति | खरतर इति तृतीयं नाम लोकदत्तं, तदपि जिनदत्तेनाभ्युपगतमित्युभयसम्मतं, परं खरतरनाम्नः प्रसिद्धिः कियत्कालानन्तरमेव बह्वी जाता, अत एव गणधरसार्द्धशतकवृत्त्यादौ खरतरनाम्नो नाभिधानं, तथा श्रावणिकत्वेन सगोत्रः स्तनिकोऽपि शतपद्याम्-'औष्ट्रिका आचरणायाः प्रामाण्यं वदन्ति तत्रेदमभिधातव्य'मित्यादिवचनरुक्तवान् , न पुनः कापि खरतरा इति, तदानीमौष्ट्रिकनाम्न एव प्रसिद्धरिति सार्द्धगाथार्थः॥३७-३८॥ अथोष्ट्रिकखरतरनाम्नोरुत्पत्तिः कस्मिन् संवत्सरे जातेत्याह एवं चउत्तरेहिं बारससयवरिसहिं १२०४ नामदुगं| चामुंडिअनामजुअं नामतिगं तेण जिणदत्ता ॥३०॥ ___ 'एवं' प्रागुक्तप्रकारेण चतुरुत्तरः-चतुरधिकादशशत १२०४ वर्षेः 'नामदुगम् अभिधानद्विकं जातमित्यर्थः, तच्च नामद्विकं | चामुण्डिकनामयुतं सन्नामत्रिक स्याद्, एतन्नामत्रिकं जिनदत्तादेव, नान्यस्माजिनवल्लभादेस्तथाविधनिमित्ताभावादेवेतिगाथार्थः |॥३९।। अथ “दससयचउवीसेहिं नयरि पट्टण अणहिलपुरि। हुअउ वाद सुविहित्थ चेइवासी स्यु बहुपरिं॥१॥ दुल्लहनरवइसभासमख्य । ॥२६९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy