________________
MARRAD
खरतरनामत्रिक
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६८॥
पूजनीया, विशेषतो मूलप्रतिमेत्येवमुपदेशेन स्त्रीभ्यो रुधिरपातप्रभवपातकस्य प्रायश्चित्तं ददाति, एतद्वयतिकरमाकर्ण्य सङ्घन चिन्तितम्-अहो प्रवचनोपघातकोपदेशेनानेनैवंविधः प्रायश्चित्तविधिः कुतोऽभ्यस्तो ? यदेकस्यापराधे तजातिमात्रस्य जिनपूजाप्र|तिषेधरूपं प्रायश्चित्तं दीयते, एवं च सति धर्मानुष्ठानमात्रस्याप्युच्छेदापत्तिः, न हि किमपि धर्मानुष्ठानस्थानं तादृग् यदनादौ
संसारेऽनेकैरनेकशोऽननुकूलक्रियामिन विराधितं, तस्माद्विराधितस्थाने तदाराधनाय प्रवृत्तो नोद्वेजयितव्यः, किंतु यत्स्थानं येन | विराधितं भवेत्स एव तत्स्थानकविराधनासमुत्थपातकघाताय पुनस्तत्रैव प्रवर्तयितव्यः, अत एव प्रतिमापुस्तकविनाशे नवीन| कारापणे शुद्धिः प्रायश्चित्तदाने भणिता, न पुनस्तदाराधनविधेः पराङ्मुखीकर्तव्यः, तस्मात् प्रातरेष प्रष्टव्यो, यदि कदाग्रह न त्यक्ष्यति तदाऽमै शिक्षा दास्यते,इत्येवंरूपेण या सङ्घोक्तिः तस्याः समुत्थं यद्भयं तस्मात् तन्निमित्तात् 'पलाणोति पलायितो,नष्ट इत्यर्थः, कीदृशो नष्टः ?-उष्ट्रवाहनारूढः, पत्तनाजाबालपुरं प्राप्तः, उष्ट्रमारुह्य स्वर्णगिरिं प्राप्त इत्यर्थः, तत्रत्यजनकथने-कथं | केन विधिना शीघ्रमेव भवानिहागत इति लोकोक्तौ सत्यां द्रव्यलिङ्गिभ्यः संभावितोपद्रवः औष्ट्रिकी विद्या स्मृत्वाऽत्रागत इति
प्रत्युत्तरं दत्तवान् , तदानीं पानीयपात्राभावेन घटाचरणाऽपि तन्मते प्रसङ्गतो बोध्या, ततो लोकेनौष्ट्रिकीविद्यावानयमौष्ट्रिक | इत्युक्तोऽतो द्वितीयमौष्ट्रिकनामेति सार्द्धगाथाद्वयार्थः ॥ ३५ ॥ ३६ ॥ अथ सार्द्धगाथया वृद्धवयोऽनुसारेण युक्त्या खरतर| नाम्न उत्पत्तिमाह-तदनन्तरोक्तमौष्ट्रिक इतिनाम तन्नाम तस्य नाम्नः श्रवणं-लोकमुखादाकर्णनं तेन हेतुभृतेन रुष्टो-रोषं गतः लोकैः |सह "मिसमिसेमाणोति क्रोधज्वलनेन देदीप्यमानस्तामसवचनो जातः सन् लोकेन भणितः-अहोऽस्य खरतरा प्रकतिरिति, पश्चात्तेन जिनदत्तेनामर्षवशेन खरतरसंज्ञेति प्रतिपन्नम् ,अयं भावः-औष्ट्रिक इत्युक्ते लोकं प्रति सरोपं त्रिवलीसमला
M
ARI IAANIHITWANILIALPRATISHALISAPANITARAMERIIIMP
॥२६
AM
R ILIP